Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 59
________________ भीमांसा ] ३१ सूत्र १-१-२५ नहि तत्रायोग्यस्य तदुत्पत्तिराकाशवदुपपद्यते स्वार्थसंविद्योग्यतैव च लब्धिरिति । उपयोगस्वभावं पुनः स्वार्थसंविदि व्यापारात्मकम् । नह्यव्यापृतं स्पर्शनादिसंवेदनं स्पर्शादि प्रकाशयितुं शक्तम् । सुषुप्तादीनामपि तत्प्रकाशकत्वमाप्तेः । स्वार्थप्रकाशने व्यापृतस्य संवेदनस्योपयोगत्वे फलत्वादिन्द्रियत्वानुपपत्तिरिति चेत् । न । कारणधर्मस्य कार्येऽनुवृत्तेः । नहि पावकस्य प्रकाशकत्वे तत्कार्यस्य प्रदीपस्य प्रकाशकत्वं विरुध्यते । न च येनैव स्वभावेनोपयोगस्येन्द्रियत्वं तेनैव फलत्वमिष्यते येन विरोधः स्यात् । साधकतमस्वभावेन हि तस्येन्द्रियत्वं क्रियारूपतया च फलत्वम् । यथैव हि प्रदीपः प्रकाशात्मा करणम् । क्रियात्मा फलम् । स्वतन्त्रत्वाच्च कर्त्तेति सर्वमिदमनेकान्तवादे न दुर्लभमित्यलं प्रसङ्गेन ॥ २४ ॥ मनोनिमित्त इत्युक्तमिति मनो लक्षयति ॥ सवार्थग्रहणं मनः ॥ १-१-२५॥ I सर्वे न तु स्पर्शनादीनां स्पर्शादिवत् प्रतिनियता एवार्था गृह्यन्ते तेनोत सर्वार्थग्रहणं 'मनोऽनिन्द्रियम्' इति ' नो इन्द्रियम्' इति चोच्यते । सर्वार्थ मन इत्युच्यमाने आत्मन्यपि प्रसङ्ग इति करणत्वप्रतिपादनार्थं ग्रहणमित्युक्तम् । आत्मा तु कर्त्तेति नातिव्याप्तिः सर्वार्थग्रहणं च मनसः प्रासिद्धमेव । यद्वाचकमुख्यः " श्रुतमनि। न्द्रियस्य " श्रुतमिति हि विषयिणा विषयस्य निर्देशः । उपलक्षणं च श्रुतं मतेः । तेन मतिश्रुतयोर्यो विषयः । समनसो विषय इत्यर्थः । मतिश्रुतयोर्निबन्धो द्रव्येष्वसर्वपर्यायेषु' इति वाचकवचनान्मतिश्रुतज्ञानयोः सर्वविषयत्वं सिद्धम् । मनोऽपि चेन्द्रियवद् द्रव्यभावभेदात् द्विविधमेव । तत्र द्रव्यमनो मनस्त्वेन परिणतानि 1 6 १ तत्त्वार्थाधिगमसूत्र २ - २२ । २ तत्वार्थाधिगमसूत्र १-२७ ।

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136