Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 58
________________ सूत्र १-१-२२ ३० [ प्रमाण यणीयः । द्रव्येन्द्रियाणामपि परस्परं स्वारम्भकपुद्गलद्रव्येभ्यश्च भेदाभेदद्वारानेकान्त एव युक्तः । पुद्गलद्रव्यार्थादेशादभेदस्य पर्यायार्थादेशाच्च भेदस्योपपद्यमानत्वात् । एवमिन्द्रियविषयाणां स्पर्शादीनामपि द्रव्यपर्यायरूपतया भेदाभेदात्मकत्वमवसेयम् । तथैव निर्वाधमुपलब्धेः । तथा च द्रव्यमात्रं पर्यायमात्रं चेन्द्रियविषय इति स्पर्शादीनां कर्मसाधनत्वं भावसाधनत्वं च द्रष्टव्यम् ।। २२ ॥ द्रव्यभावभेदानीत्युक्तं तानि क्रमेण लक्षयति|| द्रव्येन्द्रियं नियताकाराः पुलाः ॥ १-१-२३॥ द्रव्येन्द्रियमित्येकवचनं जात्याश्रयणात् । नियतो विशिष्टो बाह्य आभ्यन्तरश्चाकारः संस्थानविशेषो येषां ते नियताकाराः पूरणगलनधर्माण: स्पर्शरसगन्धवर्णर्वन्तः पुद्गलाः । तथाहि श्रोत्रा - दिषु यः कर्णशष्कुलीप्रभृतिर्बाह्य: पुद्गलानां प्रचयो यश्चाभ्यन्तरः कदम्बगोल काद्याकारः स सर्वो द्रव्येन्द्रियम् । पुद्गलद्रव्यरूपत्वात् । अप्राधान्ये वा द्रव्यशब्दो यथाङ्गारमर्दको द्रव्याचार्य इति । अप्रधानामेन्द्रियं द्रव्येन्द्रियं व्यापारवत्यपि तस्मिन् सन्निहितेऽपि चालोक - प्रभृतीनि सहकारिपटले भावेन्द्रियं विना स्पर्शाद्युपलब्ध्यसिद्धेः॥२३॥ ॥ भावेन्द्रियं लब्ध्युपयोगौ ॥ १-१-२४ ॥ लम्भनं लब्धिर्ज्ञानावरणकर्मक्षयोपशमविशेषः । यत्सन्निधानाध्यात्मा द्रव्येन्द्रियनिर्वृत्तिं प्रति व्याप्रियते तन्निमित्त आत्मनः परिणामविशेष उपयोगः । अत्रापि भावेन्द्रियमित्येकवचनं जात्याश्रयणात् । भावशब्दोऽनुसपर्जनार्थः । यथैवेन्दनधर्मयोगित्वेनानुपचरितेन्द्रत्वो भावेन्द्र उच्यते । तथैवेन्द्रलिङ्गत्वादिधर्मयोगेनानुपचरितेन्द्रलिङ्गत्वादिधर्मयोग भावेन्द्रियम् । तत्र लब्धिस्वभावं तावदिन्द्रियं स्वार्थसंवित्तावात्मनो योग्यतामादधद्भावेन्द्रियतां प्रतिपद्यते । १ प्रधानार्थः ।

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136