Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 47
________________ मांसा ] १९ सूत्र १-१-१६ कूटस्थानित्यतापक्ष एव सम्भवात् । परिणामिनित्यश्चात्मति तस्य पूर्वापरपर्यायोत्पादविनाशसहितानुवृत्तरूपत्वात् । एकान्तनित्यक्षणिकपक्षयोः सर्वथार्थक्रियाविरहात् । यदाह " अर्थक्रिया न युज्येत नित्यक्षणिकपक्षयोः । क्रमाक्रमाभ्यां भावानां सा लक्षणतया मता" इति ॥ १५॥ ननु प्रमाणाधीना प्रमेयव्यवस्था । न च मुख्यप्रत्यक्षस्य तद्वतो वा सिद्धौ किश्चित् प्रमाणमास्ति । प्रत्यक्षं हि रूपादिविषयविनिर्मितव्यापारं नातीन्द्रियेऽर्थे प्रवार्तितुमुत्सहते । नाप्यनुमानम् । प्रत्यक्षदृष्टलिङ्गलिङ्गिसम्बन्धबलोपजनितधर्मकत्वात्तस्य । आगमस्तु यद्यतीन्द्रियज्ञानपूर्वकस्तत्साधकस्तदेतरेतराश्रयः। “नर्ते तदागमात्सिध्येन च तेनागमो विना" इति । अपौरुषेयस्तु तत्सासर्वं कर्म वेद्यते तथापि पङ्कजादिशब्दवत् वेदनीयशब्दस्य रूढिविषयत्वात् सातासात( सुखदुःख ) रूपमेव कर्म वेदनीयमित्युच्यते । तस्य स्वभावः सुखदुःखसंवेदनम् । एतत्कर्म सुखं दुःखं चोत्पादयति ३। दर्शनचारित्रे च मोहमुत्पादयति मोहयति सदसद्विवेकविकलं करोत्यात्मानमिति वा मोहनीयम्। आद्यस्य (दर्शनमोहनीयस्य) स्वभावस्तत्त्वार्थाश्रद्धानम् । एतत्कर्म दुर्जनसङ्गवत्तत्त्वार्थेऽश्रद्धामुत्पादयति । द्वितीयस्य (चारित्रमोहनीयस्य) स्वभाव इन्द्रियनियमनाभावः । एतत्कर्म त्वाचरण इन्द्रियाणाव्यवस्थामुत्पादयति ४ । एति गच्छति गत्यन्तरमनेनेत्यायुः । आयुर्नामकर्मणः स्वभावो भवधारणम् । एतत्कर्म तरितॄणां मनुष्यपश्वादीनां जलवद्देहं धारयति ५ । नामयति गत्यादिपर्यायानुभवनं प्रति प्रवणयति जीवमिति । नामसंज्ञककर्मणः स्वभावो नारकादिनामकरणम् । एतत्कर्म चित्रकारवन्नानाविधाः संज्ञा आधचे ६ । गूयते शब्द्यते उच्चावचैः शब्दैरात्मा यस्मात्तद्गोत्रम् । गोत्रकर्मणः स्वभावः उच्चनीचसंशद्धनम् । एतत्कर्म कुम्भकारो घटेष्विव शरीर उच्चनीचावस्थां संपादयति ७ । जीवं दानादिकं चान्तरा एति न जीवस्य दानादिकं कर्तुं ददातीत्यन्तरायम् अन्तरायकम् । एतत्कर्म कृपणवद्दानादिषु विघ्नमुत्पादयति । इति शेयम् । १ श्लोकवार्तिक सूत्र २ श्लोक १४२ । ।

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136