Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 46
________________ सूत्र १-१-१५ ---- १८ -- [प्रमाण एते ब्रूमः। आत्मा प्रकाशस्वभावोऽसन्दिग्धस्वभावत्वात् । यः प्रकाशस्वभावो न भवति नासावसन्दिग्धस्वभावो यथा घटः । न च तथात्मा । न खलु कश्चिदहमस्मि न वेति सन्दिग्धे । इति । नासिद्धो हेतुः । तथात्मा प्रकाशस्वभावो बोद्धृत्वात् । यः प्रकाशस्वभावो न भवति नासौ बोद्धा यथा घटः । न च न बोद्धात्मतेति । तथा यो यस्याः क्रियायाः कर्ता न स तद्विषयो यथा गतिक्रियायाः कत्तो चैत्रो न तद्विषयो ज्ञप्तिक्रियायाः कर्ता चात्मोत । अथ प्रकाशस्वभावत्व आत्मनः कथमावरणम् । आवरणे वा सततावरणप्रसङ्गः । नैवम् । प्रकाशस्वभावस्यापि चन्द्रार्कादेरिव रजोनीहाराभ्रपटलादिभिरिव ज्ञानावरणीयादिकर्माभिरावरणस्य सम्भवात् । चन्द्रार्कादेरिव च प्रबलपवमानप्रायैर्ध्यानभावनादिभिर्विलयस्य चेति । ननु सादित्वे स्यादावरणस्योपायतो विलयः । नैवम् । अनादेरापि सुवर्णमलस्य क्षारमृत्पुटपाकादिना विलयोपलम्भात् तद्वदेवानादेरापि ज्ञानावरणीयादिकर्मणः प्रतिपक्षभूतरत्नत्रयाभ्यासेन विलयोपपत्तेः । न चामूर्त्तस्यात्मनः कथमावरणमिति वाच्यम् । अमूर्ताया आप चेतनाशक्तमदिरामदनकोद्रवादिभिरावरणदर्शनात् । अथावरणीयतत्पक्षाभ्यामात्मा विक्रियेत न वा । किं चातः । “वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् । चर्मोपमश्चेत् सोऽनित्यः खतुल्यश्चेदसत्फलः” इति चेत् । न । अस्य दूषणस्य १ आदिशद्वात् पढमं १ नाणावरणं, बीयं पुण २ दंसणस्स आवरणं । तइयं च ३ वेयणीयं, तहा चउत्थं च ४ मोहणीयं ॥ ५॥५ आऊ ६ नामं ७ गोय, अटमियं ८ अंतराइयं होइ, । इति कर्मग्रन्थ १ गाथा ५-६ । व्याख्या-प्रथममाद्यं ज्ञानावरणं ज्ञानस्यावरणमाच्छादनं क्रियते येन कर्मणा तज्ज्ञानावरणम् । तस्य स्वभावोऽर्थानवगमः । एतत्कर्मादित्यप्रभाच्छादकमेघवज्ञातृत्वशक्तिमावृणोति । १ । दृश्यतेऽनेनेति दर्शनं तस्यावरणं दर्शनावरणं तस्य स्वभावोऽर्थानालोचनम् । एतत्कर्म प्रदीपप्रभातिरोधायककुम्भवद्दर्शनमावृणोति । २ । वेद्यते आह्वादादिरूपेणानुभूयते यत्तद्वेदनीयम् । यद्यपि

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136