Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 52
________________ सूत्र १-१-१६ २४ - [प्रमाण विप्रतिपद्यामहे । अवोचाम हि " यत्र तत्र समये यथा तथा योऽसि सोऽस्यभिधया यया तया । वीतदोषकलुषः स चेद्भवानेक एव भगवन्नमोऽस्तु ते" ॥ इति । केवलं ब्रह्मादिदेवताविषयाणां श्रुतिस्मृतिपुराणेतिहासकथानां वैतथ्यमासज्येत ॥ १६॥ तदेवं साधकेभ्यः प्रमाणेभ्योऽतीन्द्रियज्ञानसिद्विरुक्ता बाधकाभावाच्च सुनिश्चिता ॥ असम्भवद्वाधकत्वात् सुखादिवत् ॥ १-१-१७॥ __ तत्सिद्धिरिति सम्बध्यते । तथाहि केवलज्ञानबाधकं भवत् प्रत्यक्षं वा भवेत् प्रमाणान्तरं वा । न तावत् प्रत्यक्षम् । तस्य विधाने एवाधिकारात् । “संबंद्धं वर्तमानं च गृह्यते चक्षुरादिना।" इति स्वयमेव भाषणात् । अथ न प्रवर्तमानं प्रत्यक्षं तद्वाधकं किन्तु निवर्तमानम् । तद्धि यदि नियतदेशकालविषयत्वेन बाधकं तर्हि सम्पतिपद्यामहे । अथ सकलदेशकालविषयत्वेन, तर्हि न तत् सकलदेशकालपुरुषपरिषत्साक्षात्करणमन्तरेण सम्भवतीति सिद्धं नः समीहितम् । न च जमिनिरन्यो वा सकलदेशादिसाक्षात्कारी सम्भवति । सत्त्वपुरुषत्वादेः रथ्यापुरुषवत् । अथ प्रज्ञायाः सातिशयत्वात्तत्प्रकर्षोऽप्यनुमीयते । तर्हि तत एव सकलार्थदर्शी किं नानुमीयते । स्वपक्षे चानुपलम्भमप्रमाणयन् सर्वज्ञाभावे कुतः प्रमाणयेदविशेषात् । न चानुमानं तद्बाधकं सम्भवति । धर्मिग्रहणमन्तरेणानुमानाप्रवृत्तेः । धर्मिग्रहणे वा तद्ग्राहकप्रमाणबाधितत्वादनुत्थानमेवानुमानस्य । अथ विवादाध्यासितः पुरुषः सर्वज्ञो न भवति वक्तृत्वात् पुरुषत्वाद्वा रथ्यापुरुषवदित्य १ श्रीहेमचन्द्राचार्यकृतायोगव्यवच्छेदद्वात्रिंशिका श्लोक ३१ । २ श्लोकवार्तिक सूत्र ४ श्लोक ८४ ।

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136