Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
मीमांसा ]
त्रसू १-१-२२
कारणं यस्य स तथा । सामान्यलक्षणानुवृत्तेः । सम्यगर्थनिर्णयस्येदं विशेषणं तेनेन्द्रियमनोनिमित्तः सम्यगर्थनिर्णयः । कारणमुक्त्वा स्वरूपमाह — अवग्रहेहावायधारणात्मा । अवग्रहादयो वक्ष्यमाणलक्षणाः । त आत्मा यस्य सोऽवग्रहेहावायधारणात्मा । आत्मग्रहणं च क्रमेणोत्पद्यमानानामप्यवग्रहादीनां नात्यन्तिको भेदः किन्तु पूर्वपूर्वस्योत्तरोत्तररूपतया परिणामादेकात्मकत्वमिति प्रदर्शनार्थम् । समीचीनः प्रवृत्तिनिवृत्तिरूपो व्यवहारः संव्यवहारस्तत्प्रयोजनं सांव्यवहारिकम् । प्रत्यक्षम् इन्द्रियमनोनिमित्तं च समस्तं व्यस्तं च बोद्धव्यम् इन्द्रियप्राधान्यान्मनोबलाधानाच्चोत्पद्यमान इन्द्रियजो मनस एव विशुद्धिसव्यपेक्षा दुपजायमानो मनोनिमित्त इति । ननु स्वसंवेदनरूपमन्यदपि प्रत्यक्षमस्ति तत्कस्मान्नोक्तमिति न वाच्यम् । इन्द्रियजज्ञानस्वसंवेदनस्येन्द्रियप्रत्यक्षेऽनिन्द्रियजसुखादिस्वसंवेदनस्य मनःप्रत्यक्षे योगिप्रत्यक्षस्वसंवेदनस्य योगिप्रत्यक्षेऽन्तर्भावात् । स्मृत्यादिस्वसंवेदनं तु मानसमेवेति नापरं स्वसंवेदनं नाम प्रत्यक्षमस्तीति भेदेनोक्तम् ।। २१ ॥ इन्द्रियेत्युक्तमितीन्द्रियाणि लक्षयति॥ स्पर्शरसगन्धरूपशब्दग्रहणलक्षणानि स्पर्शनरसनप्राणचक्षुः श्रोत्राणीन्द्रियाणि द्रव्यभावभेदानि ।। १-१-२२॥
स्पर्शादिग्रहणं लक्षणं येषां तानि यथासङ्ख्यं स्पर्शनादीनीन्द्रियाणि । तथाहि स्पर्शाद्युपलब्धिः करणपूर्वा क्रियात्वात् छिदित्रियावत् । तत्रेन्द्रेण कर्मणा सृष्टानीन्द्रियाणि । नामकर्मोदयनिमित्तत्वात् इन्द्रस्यात्मनो लिङ्गानि वा । कर्ममलीमसस्य हि स्वयमर्थानुपलब्धुमसमर्थस्यात्मनोऽर्थोपलब्धौ निमित्तानि इन्द्रियाणि । नन्वेवमात्मनोऽर्थज्ञानमिन्द्रियात् लिङ्गादुपजायमानमानुमानिकं स्यात् ।
I
x १-१-२७; १-१-२८; १-१-२९; १-१-३० सूत्रेषु ।
२७

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136