Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 43
________________ मीमांसा ] १५ सूत्र १-१-१२ यत्तु प्रमाणमेव न भवति न तेनान्तर्भूतेन बहिर्भूतेन वा किंचित् प्रयोजनम् । यथाऽभावः । कथमस्याप्रामाण्यम् । निर्विषयत्वाद् इति ब्रूमः । तदेव कथमिति चेत् ॥ ॥ भावाभावात्मकत्वाद्वस्तुनो निर्विषयोऽभावः॥ १-१-१२॥ नहि भावैकरूपं वस्त्विति । विश्वस्य वैश्वरूप्यप्रसङ्गात् । नाप्यभावैकरूपम् । नीरूपत्वप्रसङ्गात् । किन्तु स्वरूपेण सत्त्वात् पररूपेण चासत्त्वात् भावाभावरूपं वस्तु । तथैव प्रमाणानां प्रवृत्तेः । तथाहि प्रत्यक्षं तावद्भूतलमेवेदं घटादि न भवतीत्यन्वयव्यतिरेकद्वारेण वस्तु परिच्छिन्दत् तदधिक विषयभावैकरूपं निराचष्ट इति के विषयमाश्रित्याभावलक्षणं प्रमाणं स्यात् । एवं परोक्षाण्याप प्रमाणानि भावाभावरूपवस्तुग्रहणप्रवणान्येव । अन्यथाऽसङ्कीर्णस्वस्वविषयग्रहणासिद्धेः । यदाह " अयमेवेति यो ह्येष भावे भवति निर्णयः। नैष वस्त्वन्तराभावसंवित्त्पनुगमाहते॥” इति । अथ भवतु भावाभावरूपता वस्तुनः । किं नश्च्छिन्नम् । वयमापहि तथैव प्रत्यपीपदाम । केवलं भावांश इन्द्रियसनिकृष्टत्वात् प्रत्यक्षप्रमाणगोचरः। इति अभावांशस्तु न तथेत्यभावप्रमाणगोचर इति कथमविषयत्वं स्यात् । तदुक्तं "नं तावदिन्द्रियेणैषा नास्ती त्युत्पाद्यते मतिः। भावांशेनैव संयोगो योग्यत्वादिन्द्रियस्य हि ॥१॥ गृहीत्वा वस्तुसद्भावं स्मृत्वा च १ श्लोक वा. सू. ५. अभावपरिच्छेदे श्लो.. १५. २ श्लोक वा. सू. ५. अभावपरिच्छेदे श्लो. १८. - ३ 'इन्द्रियरेषा' इति श्लोकवार्तिकेषु पाठः । - ४ 'उत्पद्यते' इति श्लोकवार्तिक पाठः । ५ श्लोक वा. सू. ५ अभावपरिच्छेदे श्लो. २७.

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136