Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 30
________________ सूत्र १-१-१ ---- [प्रमाण यानि वा व्याकरणादिसूत्राणीत्येतदपि पर्यनुयुट्व । अनादय एवैता विद्याः संक्षेपविस्तरविवक्षया नवनवीभवन्ति तत्तत्कर्तृकाश्चोच्यन्ते। .. किं नाश्रौषीर्न कदाचिदनीदृशं जगदिति । यदि वा प्रेक्ष्य स्ववाचकमुख्यविरचितानि सकलशास्त्रचूडामाणिभूतानि तत्त्वार्थसूत्राणीति॥ यद्येवंअकलङ्कधर्मकीर्त्यादिवत् प्रकरणमेव किं नारभ्यते किमनया सूत्रकारत्वाहोपुरुषिकया। मैवं वोचः। भिन्नरुचियं जनस्ततो नास्य स्वेच्छाप्रतिबन्धे लौकिकं राजकीयं वा शासनमस्तीति यत्किश्चिदेतत् । तत्र वर्णसमूहात्मकैः पदैः पदसमूहात्मकैः सूत्रैः सूत्रसमूहात्मकैः प्रकरणैः प्रकरणसमूहात्मकैरोह्निकैराह्निकसमूहा गौतमसूत्र १-१-१) अक्षपादेन गौतमेन न्यायशास्त्रं प्रणीतं न्यायशास्त्रं च - पंचाध्यायात्मकम् । तत्र प्रत्यध्यायमाह्निकद्वयम् । तत्र १ प्रथमाध्यायस्य प्रथमाह्निके प्रमाणादिपदार्थनवकलक्षणनिरूपणं विधाय द्वितीये वादादिसप्तपदार्थलक्षणनिरूपणं कृतम् । २ द्वितीयाध्यायस्य प्रथमाह्निके संशयपरीक्षणं प्रमाणचतुष्टया (१ प्रत्यक्षं, २ अनुमानं, ३ शाब्द, ४ उपमानम् ) प्रामाण्यशङ्कानिराकारणं च । द्वितीयेऽ पित्त्यादेरन्तर्भावनिरूपणम् । ३ तृतीयस्य प्रथम आत्मशरोरेन्द्रियार्थपरीक्षणम् । द्वितीये बुद्धिमनःपरीक्षणम् । ४ चतुर्थस्य प्रथमे प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गपरीक्षणम् । द्वितीये दोषनिमित्तकत्वनिरूपणमवयव्यादिनिरूपणं च । ५ पञ्चमस्य प्रथमे जातिभेदनिरूपणम् । द्वितीये निग्रहस्थानभेदनिरूपणम् । अत्र मते पदार्थाः षोडश । १ तत्त्वार्थसूत्राणि भगवतोमास्वातिवाचकमुख्येन प्रणीतानि दशभिरध्यायैः। तत्र प्रथमेऽध्यायचतुष्टये जीवतत्त्वस्य वर्णनम् । पञ्चमे अजीव ( पुद्गल )स्य । षष्ठसप्तमयोरास्रवस्य । अष्टमे बन्धस्य । नवमे संवरनिर्जरयोः । दशमे मोक्षतत्त्वस्य । संपूर्णसूत्रसंख्या ३४४ परिमिता। अयं सूत्रग्रन्थो दिगम्बरैः श्वेताम्बरैश्च पूज्यत्वेनाभिमन्यते । यत उभयमतवादिभिस्तैस्तैराचार्यैरस्य भाष्याणि व्याख्याश्च निर्मिताः । दिगम्बरेषु प्रायोऽस्य नाम्न उमास्वामित्वेन व्यवहारः। २ सूत्रं तु सूचनाकारिग्रन्थे तन्तुव्यवस्थयोः । अनेकार्थसंग्रहे का. २ श्लो. ४५८ ३ एकस्मिन्नह्नि भवमाह्निकम् ।

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136