Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 32
________________ सूत्र १-१-१ ሂ [ प्रमाण प्रकर्षेण संशयादि व्यवच्छेदेन मीयते परिच्छिद्यते वस्तुतत्त्वं येन तत्प्रमाणं प्रमायां साधकतमम् । तस्य मीमांसा उद्देशादिरूपेण प्रर्या लोचनम् । त्रयी हि शास्त्रस्य प्रवृत्तिः १ उद्देशः २ लक्षणम् ३ परीक्षा च । तत्र नामधेयमात्रकीर्त्तनमुद्देशः । यथेदमेव सूत्रम् । उद्दिष्टस्यासाधारणधर्म्मवचनं लक्षणम् । तद्द्द्वेधा १ सामान्यलक्षणम् २ विशेषलक्षणं च । सामान्यलक्षणमनन्तरमेव सूत्रम् ( १ १/२ ) विशेषलक्षणं विशदः प्रत्यक्षम् ( १|१|१३ ) इति । विभागस्तु विशेषलक्षणस्यैवाङ्गमिति न पृथगुच्यते । लक्षितस्येदमित्थं भवति नेत्थमिति न्यायतः परीक्षणं परीक्षा, यथा तृतीयसूत्रम् (१।१।३ ) | पूजितविचारवचनश्च मीमांसाशब्दः । तेन न प्रमाणमात्रस्यैव विचारोऽत्राधिकृतः । किन्तु तदेकदेशभूतानां दुर्नयनिराकरणद्वारेण पूरिशोधितमार्गाणां नयानामपि । " प्रमाणनयैरधिगमः” दिवाई वाचकमुख्यः, सकलपुरुषार्थेषु मूर्द्धाभिर्षितस्य सोपायस्य सप्रतिपक्षस्य मोक्षस्य च । एवं हि पूजितो विचारो भवति । प्रमाणमात्रविचारस्तु प्रतिपक्षनिराकरणपर्यवसायी वाकलहमात्रं स्यात् । तद्विवक्षायां तु अथ प्रमाणपररीक्षेत्येव क्रियेत । तत् स्थितमेतत् प्रमाणनयपरिशोधितप्रमेयमार्ग सोपायं सप्रतिपक्षमोक्षं विवक्षितुं मीमांसाग्रहणमकार्याचार्येणेति ॥ १ ॥ तत्र प्रमाणसामान्यलक्षणमाह १ युक्तितः । २ तत्त्वार्थाधिगमसूत्रे – अध्याय १ सूत्र ६ । भाष्यंच - एषां च जीवादीनां तत्त्वानां यथोद्दिष्टानां नामादिभिर्न्यस्तानां प्रमाणनयैर्विस्ताराधिगमो भवति । तत्र प्रमाणं द्विविधम् । परोक्षं प्रत्यक्षं च चतुर्विधमित्येके नयवादान्तरेण । नयाश्च नैगमादयः । ( नैगमसंग्रहव्यवहारर्जुसूत्रशब्दा नयाः । तत्त्वार्थाधिगमसूत्र १ - ३४ ) ३ श्रेष्ठस्य ।

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136