Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 37
________________ मीमांसा ] सूत्र १-१-७ विषयत्वम् । एवं ह्यवगृहीतस्याऽनीहनादीहितस्यानिश्चयादसमञ्जसमापद्येत । न च पर्यायापेक्षयानधिगतविशेषावसायादपूर्वार्थत्वं वाच्यम् । एवं हि न कस्यचिद् गृहीतग्राहित्वमित्युक्तप्रायम् । स्मृतेश्व प्रमाणत्वेनाभ्युपगताया गृहीतग्राहित्वमेव सतत्त्वम् । यैरपि स्मृतेरप्रामाण्यामिष्टं तैरप्यर्थादनुत्पाद एव हेतुत्वेनोक्तो न गृहीतग्राहित्वम् । यदाह "न स्मृतेरप्रमाणत्वं गृहीतग्राहिताकृतम् । अपि त्वनर्थजन्यत्वं तदप्रामाण्यकारणम्” इति ॥४॥ .. अथ प्रमाणलक्षणप्रतिक्षिप्तानां संशयानध्यवसायविपर्ययाणां लक्षणमाह॥अनुभयत्रोभयकोटिसंस्पर्शी प्रत्ययः संशयः॥१-१-५॥ अनुभयस्वभावे वस्तुनि उभयान्तपरिमर्शनशीलं ज्ञानं सर्वात्मना शेत इवात्मा यस्मिन् सति स संशयः । यथान्धकारे दूरादुर्दाकारवस्तूपलम्भात् साधकबाधकप्रमाणाभावे सति स्थाणुर्वा पुरुषो वोत प्रत्ययः । अनुभयत्रग्रहणमुभयरूपे वस्तुन्युभयकोटिसंस्पर्शेऽपि संशयत्वनिराकरणार्थम् । यथास्ति च नास्ति च घटः, नित्यश्चानित्यश्चात्मेत्यादि ॥५॥ ॥विशेषानुल्लेख्यनध्यवसायः ॥ १-१-६॥ . दूरान्धकारादिवशादसाधारणधर्मावमर्शरहितः प्रत्ययोऽनिश्चयात्मकत्वादनध्यवसायः। यथा किमेतदिति । यद्यप्यविकल्पकं प्रथमलक्षणभावि परेषां प्रत्यक्षप्रमाणत्वेनाभिमतं तदप्यनध्यवसाय एव । विशेषोल्लेखस्य तत्राप्यभावादिति ॥ ६॥ अतस्मिंस्तदेवेति विपर्ययः॥ १-१-७॥ यज्ज्ञाने प्रतिभासिते तद्रूपरहिते वस्तुनि तदेवेति प्रत्ययो विपर्यासरूपत्वाद्विपर्ययः । यथा धातुवैषम्यान्मधुरादिद्रव्येषु तिक्तादि१ वातपित्तकफात्मका धातवः ।

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136