Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
मीमांसा ]
५
सूत्र १-१-२ ॥ सम्यगर्थनिर्णयः प्रमाणम् ॥ १-१-२॥ प्रमाणमिति लक्ष्यनिर्देशः। शेष लक्षणम् । प्रसिद्धानुवादेन ह्यप्रसिद्धस्य विधानं लक्षणार्थः । तत्र यत्तदविवादेन प्रमाणमिति धम्मि प्रसिद्धं तस्य सम्यगनिर्णयात्मकत्वं धर्मो विधीयते । अत्र प्रमाणत्वादिति हेतुः । नच धम्मिणो हेतुत्वमनुपपन्नम्, भवति हि विशेषे धम्मिणि तत् सामान्यं हेतुर्यथाऽयं धूमः सानिर्द्धमत्वात पूर्वोपलब्ध- ६ धूमवत् । न च दृष्टान्तमन्तरेण नगमकत्वम् । अन्तर्व्याप्त्यैव साध्यसिद्धेः। सात्मकं जीवच्छरीरं प्राणादिमत्त्वादित्यादिवदिति दर्शयिष्यते। तत्र निर्णयः संशयाऽनध्यवसायाविकल्पत्वरहितंज्ञानम् । ततो निर्णयपदेनाज्ञानरूपस्येन्द्रियसन्निकर्षादेर्ज्ञानरूपस्यापि संशयादेः प्रमाणत्वनिषेधः । अर्यतेऽर्थ्यते वाऽर्थो हेयोपादेयोपेक्षणीयलक्षणः । हेयस्य हातुम् उपादेयस्योपादातुम् उपेक्षणीयस्योपेक्षितुमर्थ्यमानत्वात् । न चानुपादेयत्वादुपेक्षणीयो हेय एवान्तर्भवति । अहेयत्वादुपादेय एवान्तर्भावप्रसक्तेः । उपेक्षणीय एव च मूर्दाभिषिक्तोऽर्थो योगिभिस्तस्यैवार्यमाणत्वात् । अस्मदादीनामपि हेयोपादेयाभ्यां भूयानेवोपेक्षणीयोऽर्थः । तन्नायमुपेक्षितुं क्षमः । अर्थस्य निर्णय इति कर्मणि षष्ठी । निर्णीयमानत्वेन व्याप्यत्वादर्थस्य । अर्थग्रहणं च स्वनिर्णयव्यवच्छेदार्थ तस्य सतोऽप्यलक्षणत्वादिति वक्ष्यामः । सम्यगित्यविपरीतार्थमव्ययं समञ्चतेर्वा रूपं तच्च निर्णयस्य विशेषणं तस्यैव सम्यक्त्वाऽसमक्त्वयोगेन विशेष्टमुचितत्वात् । अर्थस्तु स्वतो न सम्यग्नाप्यसम्यगिति सम्भवव्यभिचारयोरभावान विशेषर्णायः ।
१ लक्षणसूत्रम् १-२-६। २ लक्षणसूत्रम् १-२-१३ ।
३. स्वः निर्णयः। : ४ विशेषणं दातुम् ।
५ सम्भवव्यभिचाराभ्यां स्याद्विशेषणमर्थवत् । न शैत्येन न चौष्ण्येन वति । पि विशिष्यते। १।

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136