Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
ॐ नमः सर्वज्ञाय कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिता
खोपज्ञवृत्तिसहिता
प्रमाणमीमांसा अनन्तदर्शनज्ञानवीर्यानन्दमयात्मने । नमोऽर्हते कृपाक्लप्तधर्मतीर्थाय तायिने ॥१॥ बोधबीजमुपस्कर्तुं तत्त्वाभ्यासेन धीमताम् ।
जैनसिद्धान्तसूत्राणां स्वेषां वृत्तिर्विधीयते॥२॥ ननु यदि भवदीयानीमानि जैनसिद्धान्तसूत्राणि तर्हि भवतः पूर्व - कानि किमीयानि वा तान्यासन्निति । अत्यल्पमिदमन्वयुङ्क्तथाः। पोणिनिपिङ्गलकर्णादाक्षपादादिभ्योऽपि पूर्वे कानिं किमी
* तायड् संतानपालनयोरिति ( है. धा. पा. १-८०६) धातो रूपम् । पालकायेत्यर्थः। १ बोधो ज्ञानम् ।
२ अष्टाध्यायीव्याकरणकारको दाक्षीपुत्रो मुनिः पाणिनिः । तेनैव प्राकृतलक्षणनामकं प्राकृतव्याकरणमपि रचितम् । 'यदाह पाणिनिः स्वप्राकृतलक्षणे "व्यत्ययोऽप्यासाम्"। इति। सूर्यप्रशप्तिटीकायां तथा पञ्चसंग्रहटकिायामपि 'यदाह पाणिनिः प्राकृतलक्षणे-तृतीयायें सप्तमी यथा 'तिसु तेसु ' अलंकिया पुहई' इति । मलयगिर्याचार्येण निरदोश ।
३ छन्दःसूत्राणां प्रणेता पिङ्गलो मुनिः । ४ कणमत्तीति कणादः । तेन प्रणीत कणाददर्शनम् । अयमेवौलूक्यः । उलूकस्यधैरपत्यमौलूक्यः । अस्य दर्शनस्यौलूक्यदर्शनमिति नामे । अयं कणादो दशाध्यायात्मकदर्शनस्य प्रणेता ।अत्र (वैशेषिक ) मते पदार्थाः सप्त ।
५ षोडशपदार्थवादिना (“ प्रमाणप्रेमेयसंशयप्रयोर्जेनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवैदिजल्पवितण्डाहेत्वाभासन्छलजातिीनग्रंहस्थानानां तत्त्वज्ञानानिःश्रेयसाधिगमः" । इति ।

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136