Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 35
________________ जिनदत्तकथानकम् [दशपुरवास्तव्यऔदत्तश्रेष्टिगृहे जिनदत्तस्य प्रतिपन्नपुत्रत्वेनावस्थानम] ततो जिनदत्तो विदेशं गच्छन् कियद्भिर्दिवसः दशपुरनगरपरिसरे गतः । तत्र दशपुर नगरोद्यानवाटिकामध्येऽशोकतरुतले निषण्णः, खेदान्निद्रायितश्च । तद्भाग्येन शुष्काऽपि वाटिका पुनर्नवा जाता । तथा दृष्ट्वा कश्चिन्मालिकोऽशीतिकोटयधिपस्याप्यपुत्रस्य वाटिकाधनिकस्य औदत्तव्यवहारिणोग्रेऽवोचत् । श्रेष्ठी पुष्पितां वाटिकां श्रुत्वा तत्र गत्वा भ्रमन् वृक्षतले जिनदत्तं वीक्ष्य हृष्टो बभाषे-कीदृशस्त्वम् ? तेनोक्तम् – वैदेशिकोऽहम् । श्रेष्ठिना सभाग्यं तं विज्ञाय गृहमानीय बाढं गौरयित्वा भाषितः-वत्स ! त्वं विदेशं मा यासीः, वं मम धर्मपुत्रः सवश्वरश्च । ततस्तत्र महाऽऽग्रहेण स्थितस्य तस्य सुखेन कालो याति धर्मेण किं किं न वाञ्छितं स्यात् यतः - आरोग्यं सौभाग्यं धनाढयता नायकत्वमानन्दः । कृतपुण्यस्य स्यादिह सदा जयो वाञ्छितावाप्तिः ॥३४॥ तथा यद्यपि कृतसुकृतभरः प्रयाति गिरिकन्दरान्तरेषु नरः । करकलितदीपकलिका तथापि लक्ष्मीस्तमनुसरति ॥३५॥ तथा "पुण्यहीण षण दीण, पामइ परिभव हासा । पुण्यई सुख अनंत, पुन्नि पूरी दस दिसा ॥३६॥ तस्य सर्वदा पृथक् पृथग् 'मन्दिरेषु चतुरशीतिप्रवहणानि वहन्ति, चतुरशीतिवणि क्पुत्राश्च तन्नियुक्ताः सन्तिः । [औदत्तश्रेष्ठिसहगतस्य जिनदत्तस्य सिंहलद्वीपराजपुत्र्या श्रीमन्या सह पाणिग्रहणम्] एकदा सर्वयानपात्राण्येकत्र मन्दिरे यान्ति सन्ति । तदा पुत्राग्रे औदत्तेन प्रोक्तम्वत्स ! यदि कथयसि तदाऽहमेषां सार्थे चलामि, यथा द्रव्यनाशो न स्यात् , त्वं गृहे तिष्ठ । तेनोक्तम्-अहमपि समेष्यामि, त्वत्प्रसादाद् ममापि विदेशदर्शनेच्छा पूर्यताम् । 1. बाटिकास्वामिनः । धनिक="धणी' इति भाषायाम् ॥ 2. पुण्यहीना बहवो दीनाः प्राप्नुवन्ति परिभवं हास्थम् । पुण्येन सुख अनन्तम्, पुण्येन पूरिता दश दिशाः ॥ 3. तस्य औदत्तव्यवहारिणः ॥ 4. अत्र 'मन्दिर' शब्दप्रयोगो बेलाकूलार्थे ज्ञेयः । मन्दिर 'बंदर बंदिर' इति भाषायाम् ॥ 5. अत्रापि मन्दिर' शब्दो वेलाकूलार्थे ज्ञेयः ॥

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132