Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
जिनदत्तकथानकम्
इति प्रतिबोधदानेन सर्वेषां चमत्कारमुत्पाद्य धूर्तः शीघ्र स्वस्थानं गतः । ततः श्रेष्ठी लज्जितः प्रियाद्वययुतः स्वगृहं गत इति । तदा सर्वै राजादिभिः भार्याद्वयं निन्दितम् - आः ! एताभ्यां किमकृत्यं कृतम् ?, तन्महापापिन्यावेते इति ।
विमलमतिः सर्व' कथानकं प्रोच्य वदति स्म – अहो ! वामन ! हे श्रीमति ! विषयसुखलौल्येन ताभ्यां लोकद्वयं यथा हारितम् , इहावर्णवादो जातः परत्र दुर्गतिश्चेति तथा नाहं भवामि, न पुनरहं तद्वद् इहलोकसुखगा न केनापि परावत्यै ।
अत्रान्तरे सर्वपौरलोकैश्चिन्तितम् – अहो ! अस्या वचनचातुर्यम् , अहो ! शीलनिश्चलता च । श्रीमती विज्जाहरी च द्वे अपि किकर्तव्यतामूढे जाते । 'कथमेषा प्रत्याययिष्यते ?' इति । वामनस्तु स्वकान्तां शीलैकान्तदृढां ज्ञात्वा मनसि मुदितो जातोऽस्ति ।
[ जिनदत्तकृतं मदोन्मत्तहस्तिवशीकरणम् ] इतश्च राजकुञ्जर आलानस्तम्भं मोटयित्वा भारसहस्रशङ्खलां त्रोटयित्वा, प्रतोली पातयित्वा, शुण्डया बहुजनान् पीडयित्वा सर्वनगरं हतप्रायं करोति स्म । स व्यालः साक्षात्काल इव सर्वजनस्य जातः । ततो बुम्बाकरेण नरेण केनापि राज्ञे प्रोचे - देव ! तव पट्टहस्ती मदोन्मत्तो जातः, तद्भयेन सर्व' पुरं दिशि दिशि नष्टम् । तच्छ्रुत्वा सर्वमुत्थितम् । ततोऽरण्यमिव शून्य रणमुखं पुरं दृष्ट्वा लोकं निजप्राणरक्षार्थ वृक्ष-गिरि-चैत्यादिशिखरारूढं च ज्ञात्वा स्वयमपि राजा बहिर्वने गतो मूढबुद्धिर्दध्यौ – संसारे स एव श्लाघ्यावतारो योऽधुना किकर्तव्यतामूढस्य मम बुद्धि ददाति, किमपरैनरैः । यदुक्तम् -
आसन्ने रणरंगे, मूढे मंते तहेव दुब्भिक्खे ।
जस्स मुहं जोइज्जइ, सु च्चिय जाओ किमन्नेणं ? ॥१२३॥ ततो नृपो बभाषे – भो भो वीराः ! भवतां मध्ये स कोऽप्यस्ति य एनं पट्टहस्तिनं वशवर्तिनं करोति ? परं केनापि कृतान्तदुर्दान्तः कोपाक्रान्तः स गजो न नामितः ।
ततो राज्ञा पटहवादनपूर्वमित्याघोषयामासे – यः कोऽपि गजमेनं वशमानयति तस्य राजा राज्यार्द्ध मदनमञ्जरी च कन्यां दत्ते । इति पटहोद्घोषणा सर्वत्र कारिता, परं केनापि भयभीतेन जनेन न तत् क मशक्यत । परं 'किमत्र भावि ? सम्प्रत्येव किं कल्पान्तो भविष्यति ?' इति सर्वैर्व्याकुलीभूतम् ।
1. आसन्ने रणरङ्गे मूढे मन्त्रे तथैव दुर्भिक्षे यस्य मुखं दयते स खलु जातः, किमन्येन १ ॥

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132