Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
जिनदत्त-तज्जननीजनकमिलनस्य विस्तृतवर्णनम् न दशति मन्त्रज्ञमहिहीनकलं त्यजति राहुरपि चन्द्रम् ।
सरसं न दहति दहनो, नृपस्तु कुपितोऽखिलं हन्ति ॥२०८॥" ततः कम्पमानाङ्गो दीनास्यः शून्यचित्तस्तत्कालगतसर्ववित्त इव गतजीविताशः सपत्नीकः श्रेष्ठी दूतैर्जलमयीभूतकर-चरणोऽग्रे गृह्यमानोऽपि पश्चाद्गच्छन्निव शनैःशनैर्गतिर्बलादाकृष्य पार्थिवाग्रे दूरस्थित एवोर्वीकृतः । ततः श्रेष्ठी चक्राधिपसमां तत्सभां निरीक्ष्य चिन्तयति - " किमियमामरी सभा ?, योऽयं राजा दृश्यते स किं देवः ?, किं वा धर्मराजोऽयम् ? यदसौ राजा तुष्टस्तदा राज्यं दत्ते, यदि रुष्टस्तदा सर्वस्वं जीवितं च नियमेन गृह्णाति, यदेते राणका दृश्यन्ते ते दिक्पाला लोकपाला वा घटन्ते, यावदमी पश्चास्थितस्य ममान्तरे वर्तन्ते तावन्मयाऽपि किञ्चिज्जीविताशा कार्या, यतो ये मध्यस्थास्ते पालयन्त्येव, अथवा किमनया चिन्तया !, यद् भाव्यं तद् भविष्यति" । इति चिन्तयन्नयं स्थितोऽस्ति ।
__ [जिनदत्त-तज्जननी-जनकमेलापकस्य विस्तरतो वर्णनम् ]
तदा पुरन्दरसभातुल्यां निजसभामध्यासीनश्छत्र-चामरादिविभूतिमान् भूपतिर्दुःस्थावस्थापतितौ जराजीी जीर्णशीर्णवस्त्रौ गलिताङ्गौ गलन्नयनौ नि थाविव गतशरणौ निजमाता-पितरौ दृष्ट्वा खेदं गतश्चिन्तयति – “ही ! धिग् धिग् मम राज्यम् , मामपि धिगस्तु, किं तेन पुत्रेण ? यत्पितरावेवं रुलतः । यतः -
किं तेन जातु जातेन, पृथिवीभारकारिणा ! । आस्तामन्यस्य पित्रोरप्याा पूरयते न यः ॥२०९॥ स पुत्रो यः पितुर्मातुभूरिभक्तिसुधारसैः । निर्वापयति सन्तापं, शेषस्तु कृमिकीटकः ॥२१०॥ वरं वृक्षोऽपि सिक्तोऽसौ, यस्य विश्रम्यते तले ।
सचेतनोऽपि नो पुत्रो यः पित्रोः क्लेशकारकः ॥२११॥" तयोर्दुर्दशां दृष्ट्वाऽन्तर्महाशोकातुरो भूत्वा पुनर्बहिरात्मानं सन्धीर्य पृथ्वीपतिरप्रतः पितरौ पुनराकार्य पृच्छति - भो श्रेष्ठिन् ! यूयं महान्तो व्यवहारिणः पूर्व श्रुताः, सम्प्रति भवतां महावस्था दृश्यते, तत् किं राज्ञा यूयं दण्डिताः ?, तस्करैर्मुषिता वा ?, वह्निना दग्धसर्वस्वा वा ?, सम्प्रति यूयं किमीदृशाः ? कारणं वदत।
अथ श्रेष्ठी वेपमानः सगद्गदमिदं वदति – हे देव ! मम पार्थिवादिभिः किञ्चिन्न कृतम् , किन्तु प्रतिकूलदेवेन दण्डितोऽहम् । राज्ञोक्तम् – देवेन केन द्वारेण प्रातिकूल्यं

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132