Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
अरिमर्दननृप - जिनदत्तयोर्वार्तालापः
ततोऽरिमर्दनो दध्यौ “ अहोऽस्य स्वदोषदर्शित्वम्, यत् सर्वोऽपि प्राणी प्रायः पर्वतोपरि प्रज्वलत् पश्यति, न पुनः स्वपदोरधः, यतः
-
राई - सरिसवमित्ताणि परच्छिद्दाणि पासए ।
अपणो बलमिचाणि पासंतो वि न पासए ॥ २५७॥ 'इक्कं पिनत्थि लोयस्स लोयणं जेण नियइ नियदोसे । परदोसपिच्छणे पुण लोयणलक्खा इं जायंति ॥ २५८॥
तदयं लोकोत्तरस्वभावो महाभाग्यवान्, किमप्यस्मै संसारसारभूतं ददामि यस्मै दीयते " । इति नरपतिश्चिन्तयन्नस्ति ।
9
品
परं मम तन्नास्ति
—
अत्रान्तरे कमपि पूर्वसम्बन्धं स्मृत्वा अरिमर्दननृपः पुनरुवाच ." हे सौम्यमूर्ते ! ममैकः सन्देहो दवदहन इव देहं दहति तं च शमयितुं त्वमेव समर्थः यतस्ते मुखे सरस्वती - प्रवाहोऽस्ति तव दक्षिणभुजः समुद्रः तव हृदये धनागमः, तवाधरः शोणः, तव पार्श्वतो वाहिन्यस्तिष्ठन्ति तव मानसं स्वच्छत्वे मानसमेवास्ति त्वं ननु सर्वरसमय इव वेधस्रा विहितोऽसि ततस्त्वत्तः शीतीभवितुमिच्छामि " 1
-
अथ ‘यथोत्पन्नं संशयं शीघ्रं पृच्छ ' इति जिनदत्तेनोक्तेऽरिमर्दनराजो ब्रूते – भो चित्रचरित्र ! मया दीयमानं ग्रामदेशादिदण्डं मुक्त्वा त्वया निजौ माता - पितरौ यन्महाकोपाटोपेन याचितौ तत् किं कारणम् ? ततो जिनदत्त उवाच " हे राजेन्द्र ! यदा तवोपदा महत्तरा मत्सम्मुखाः समायाताः तदा तव प्रजापालनपरीक्षाकरणे मम कौतुकं जातम् - ' यदयं शरणागतां निजां प्रजां कथं रक्षति ? कीदृशं चास्य मध्ये सत्त्वमस्ति ? ' अन्यच्च तदा सर्वथाऽप्यचिन्त्यो ममेदृशः कुविकल्पोऽप्यजनि ' यद्येष राजा मदीयौ माता- पितरौ बद्ध्वा समर्पयिष्यति तदाऽहमेनं सबलं सकोशं सदेशं राज्यादुन्मूलयिष्यामि ' इति, पुनस्त्वया • श्रेष्ठिनं मत्तातमजानता किन्तु लोकमात्रं जानताऽपि स्वसाहसं न मुक्तं तत् त्वं निश्चितं सात्त्विकशिरोमणिः, यदुक्तम् -
चलति कुलाचलचक्रं, मर्यादामतिपतन्ति जलनिधयः ।
उचितादुदारसत्त्वात् सन्तः प्रलयेऽपि न चलन्ति ॥ २५९ ॥
1. राजिका - सर्षपमात्राणि परछिद्राणि पश्यति, आत्मनो विल्वमात्राणि पश्यन्नपि न पश्यति ॥ 2. एकमपि नास्ति लोकस्य लोचनं येन पश्यति निजदोषान्, परदोषप्रेक्षणे पुनले चनलक्षाणि जायन्ते ||
J-9

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132