Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 112
________________ दिक्षाग्रहणविषये जिनदत्त-तदमात्ययोः संवादः सृजति तावदशेषगुणालयं पुरुषरत्नमलङ्करणं भुवः । तदनु तत् क्षणभनि करोति चेदहह ! कष्टमपण्डितता विधेः ॥ ३७० ॥" ततो गीतार्थः कश्चिन्मन्त्री जगाद — " शोचनीयः स एवायं यः स्यात् सत्कृत्यवर्जितः । धर्मपाथेयहीनत्वात् संसाराध्वनि दुःस्थितः ॥ ३७१॥ तव - नियमसुट्ठियाणं कल्लाणं जीवियं पि मरणं पि । जीवंतऽज्जति गुणे, मुआ वि पुण सुग्गई जंति ॥३७२॥ त्यक्त्वा जीर्णमिदं देहं लभते च पुनर्नवम् । कृतपुण्यस्य जीवस्य मृत्युरेव रसायनम् ||३७३॥ अत एव श्रीवीरस्य दर्दुराङ्कदेवेन भक्त्या ' म्रियस्व ' इत्युक्तम् ततो राजा सवैराग्यमिति दध्यौ — " 1 द “धन्यानां गिरिकन्दरे निवसतां ज्योतिः परं ध्यायतां, आनन्दाश्रुजलं पिबन्ति शकुना निःशङ्कमक्ङ्केशयाः । अस्माकं तु मनोरथोपरचितप्रासादवापीतटक्रीडाकाननकेलिकौतुकजुषामायुः परिक्षीयते ॥ ३७४॥ त्यक्त्वा सङ्गमपारपर्वतगुहागर्भे रहः स्थीयतां, रे रे चित्त ! कुटुम्बपालनविधौ कोऽवाधिकारस्तव ? | यस्यैते पुरतः प्रसारितदृशः प्राणप्रियाः पश्यतो, नीयन्ते यमकिङ्करैः करतलादाकृष्य पुत्रादयः ॥३७५॥ यैस्त्यक्ता किल शाकिनीवदसमप्रमाञ्चिता प्रेयसी, लक्ष्मीः प्राणसमाऽपि पन्नगवधूवत् प्रोज्झिता दूरतः । मुक्तं चित्रगवाक्षराजिरुचिरं वल्मीकवन्मन्दिरं, निःसङ्गत्वविराजिताः क्षितितले नन्दन्तु ते साधवः ||३७६॥ तथा प्रियस्वजनमरणं श्रुत्वा स्वस्यापि तद्ववदवश्यम्भावि तद् ज्ञात्वाऽपि वराको मूढजीवः स्वहितं न करोति, यदुक्तम् - 1. तपो-नियमसुस्थितानां कल्याणं जीवितमपि मरणमपि, जीवन्तः अर्जयन्ति गुणान् मृता अपि पुनः सुगतिं यान्ति ॥

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132