Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 117
________________ जिनदत्तकथानकम् नगरान्निर्गच्छन् नरपतिनिजं जिनभवनं निरीक्ष्य देववन्दनार्थ परमभक्त्या तत्र जगाम। ततः पृथ्वीशस्य निरञ्जनजिनप्रतिमां वन्दित्वा निभालयतस्तन्मयतया वीतरागत्वं ध्यायतश्च प्रतिक्षण प्रवर्द्धमानविशुद्धतरपरिणामेन क्षपकश्रेणिमारूढस्य ज्ञानावरणीयादिघातिकर्मचतुष्टये क्षीणे तत्क्षणं केवलज्ञानमुत्पेदे । यतः - रे! मन एक झबुक्कडउ जइ किमइ थिरु थाइ । चंदि लिहावउं लीहडी, जगि ऊभावउं बाहि ॥४०३।। ततो 'जयतु समुत्पन्नज्ञानः श्रीजिनदत्तराजर्षिः' इत्याद्याकाशवाणीमुच्चरन्त्या शासनदेवतया दत्तवेषस्तत्कालसमायातसुर-नरनिकरकृतकेवलमहोत्सवः सुरकृतसहस्रदलकमलमल कुर्वाणः श्रीजिनदत्तकेवली धर्मदेशनां ददाति । यथा - __ “भो भो भव्याः ! भवकोटिदुप्पापां मनुष्यभवादिसमग्रसामग्री प्राप्य पुण्यमेव कुरुध्वम् , यन्मयाऽपि पूर्वभवकृतैः दानादिभिः सुकृतैः सत्कुल-सल्लक्ष्मी-सुराज्य-सद्भोगादिकं प्राप्तम् । इहापि भवे धर्मकल्पद्रुम एव निर्ममतादिभावनाभूरिनीरसिक्तो मह्यं केवलज्ञानफलं ददौ । ततो यूयमपि पुण्यमेव कुरुत । यतः - धर्माज्जन्म कुले कलङ्कविकले जातिः सुधर्मात् परा, धर्मादायुरखण्डितं गुरु बलं धर्माच्च नीरोगता । धर्माद् विलमनिन्दितं निरुपमा भोगाः सुकीर्तिः सुधीः, धर्मादेव च देहिनां प्रभवतः स्वर्गाऽपवर्गावपि ॥४०४॥ यावच्चित्तं च, वित्तं च, यावदुत्सहते मनः । तावदात्महितं कुर्याद, धर्मस्य त्वरिता गतिः ॥४०५॥ यावन्न प्रसते रोगैर्यावन्नाभ्येति ते जरा । यावन्न क्षीयते चायुस्तावत् कल्याणमाचर ।।४०६॥ यात्रिलोकेऽपि दृश्यन्ते सम्पदः सुख-दुःखयोः । जानीहि ताः फलं भद्र ! प्रकटं पुण्य-पापयोः ॥४०७।। किं चिन्तामणि-कल्पद्-कामधुक्प्रमुखैः स्तुतैः ? । पुण्यमेव सतां स्तुत्यं यस्यैते किक्करा इव ॥४०८।। 1. रे ! मनसः एक उद्योतः यदि किमपि स्थिरः स्यात् [ तर्हि ] चन्द्रमसि लिखापयामि रेखाम् , जगति [च ] उद्भावयामि वाहू ॥

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132