Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 122
________________ जिनदत्त पत्नीनां दीक्षाग्रहणं ग्रन्थसमाप्तिश्च [विमलमत्यादीनां पञ्चानां जिनदत्तपत्नीनां जातिस्मरणं दीक्षाग्रहणं जिनदत्तकेवलिमोक्षगमनं च ] अत्रान्तरे विमलमत्यादीनां पञ्चानामपि जातिस्मरणं जातम्, ततो भवविरक्ताः पतिमार्गानुरक्ता बहुलोकयुक्ता विमलमत्याद्याः पञ्चापि प्रियाः करयोजनपूर्वं प्रव्रज्यां प्रार्थयन्तीः प्रव्राज्य केवली ' किमेतत् ? ' इति साश्चर्ये राजसह सैरनुगम्यमानो महीमण्डले चिरं विहृत्यानेकलोकान् प्रतिबोध्य घनघातिकर्मक्षये मुक्तिपदं प्राप । [ जिनदत्त-विमलमतीपुत्रस्य विमलबुद्धिकुमारस्य राज्यपालन निरूपणपूर्वकं ग्रन्थोपसंहारः ] ततस्तस्य पट्टे सर्वराजप्रधानपुरुषैर्विमलमती कुक्षिभूर्विमलबुद्धिकुमारः प्रतिष्ठितः सन् प्राज्यं राज्यं पालयन् सकल श्रेयः सुखानि भुङ्क्ते । तदेवं धर्मतः श्रुत्वा फलं यावन्महोदयम् । उत्तरोत्तर सौख्याय कार्यों धर्मोद्यमो बुधैः ॥ १ ॥ [ ग्रन्थकारप्रशस्ति: ] एतां श्रीजिनदत्तभूपतिकथां श्रीपूर्णिमापक्षसमुख्यः श्रीगुणसागराख्यसुगुरोः शिष्येण संक्षेपतः । वेदोर्वीधरविश्ववर्ष ( १४७४ ) विहितां पुण्यप्रभावाद्भुतां श्रुवन्तु श्रवणामृतां शिवकृते भव्याः ! भवन्तश्चिरम् ॥ १॥ संयम सिंहगणेशा ग्रहतः श्रीगुणसमुद्रसूरिवरैः । मुग्धानुग्रहबुद्धया कृता कथेयं चिरं जीयात् ॥ २॥ ॥ इति जिनदत्तकथा सम्पूर्णा ॥ ९५ ॥ ग्रन्थाग्रम् २६३७ अक्षर २६ ॥ ॥ शुभं भवतु ॥ [सं० १६६७ वर्षे ॥ 1. प्रतिलेखन वर्षमिदम् ॥

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132