Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
जिनदत्तकथानकम् दिन्नं तस्स गणिज्जइ, अपहुप्पंतो वि धणसमिद्धीए । जो देइ इट्ठमिळं चिरपत्तं सत्तिसंजुतो ॥४२०॥ दाणोवभोगपरिवज्जिएण दव्वेण किं व किवणस्स ? ॥
लद्धेण वि नस्थि गुणो पक्ककविठेण कायस्स ।।४२१॥ तथा -
जे पूअति कयत्था साहुजणं निअविढत्तदव्वेण । ताण सुलद्धो जम्मो, सफला ताणे च धणरिद्धी ॥४२२॥ 'देविंद-चक्कि-केसव-हलधर-मंडलियपमुहरिद्धीओ।
जे विअरंति सुपत्ते तेसिं करपल्लवत्थाओ ॥४२३॥" एवमनुमोद्य पञ्चापि कन्याः स्वस्वगृहं गताः । शिवदेवोऽपि तुष्टचित्तो भोजनमकार्षीत् ।
ततः प्रभृति च शुभजीवितत्वेन जीवित्वा आयुःक्षये मृतः सन् वसन्तपुरे जीवदेवश्रीष्ठगृहे जिनदत्तनामाऽहमुत्पन्नः । पात्रदानफलेनेदृशी राज्यद्धिर्मे जाता, जननीशङ्काविरत्या च स्तोकस्तोकमन्तरे दुःखं जातम् । पूर्वभवे याभिर्दानानुमोदना कृता ताः पञ्चापि मम पत्न्यो रूपसौभाग्यादिभाजनं जाताः ।
इति केवलिपूर्वभवं श्रुत्वा चमत्कृता जना ऊचुः -- " अहो ! दानधर्मफलं पश्यत, यदुक्तम् -
धर्माणां तेन दानेन समं का समशीर्षिका ? । करं देवाधिदेवोऽपि यस्यार्पयति सङ्गमे ॥४२४॥
तथा -
दानेन भरतश्चक्री, दानेन ऋषभो जिनः । दानेन शान्तिनाथस्तु, दानेन चरमो जिनः ॥४२५॥ प्रस्तावे भाषितं वाक्यं, प्रस्तावे दानमङ्गिनाम् ।
प्रस्तावे वृष्टिरल्पाऽपि, भवेत् कोटिफलप्रदा ॥४२६॥ 1. दत्तं तस्य गण्यते, अप्रभवन्नपि धनसमृद्धया यः ददाति इष्टमिष्ट चिरप्राप्तं शक्तिसंयुक्तः । 2. दानोपभोगपरिवर्जितेन द्रव्येण किं वा कृपणस्य ?, लब्धेन अपि नास्ति गुणः पक्वकपित्थेन काकर य 3. ये पूजयन्ति कृतार्थाः साधुजनं निजोपार्जितद्रव्येण तेषां सुलब्धं जन्म, सफला तेषां च धनर्द्विः ।। 4. देवेन्द्र-चक्रि-केशव-हलधर-माण्डलिकप्रमुखर्द्धयः ये वितरन्ति सुपात्राय तेषां करपल्लवस्थाः ॥

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132