Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
जिनदत्तकेवलिदेशनायां निजपूर्वभवकथा पत्ते वि अ पाहुणए किं काही दुग्गओ तुरंतो वि ? ।
अंधो मिलिएहिं वि लोयणेहिं अंधो च्चिय वराओ ।।४१७॥ सर्वथा नास्ति मे भाग्यम्" । एवं चिन्तयतस्तस्य माघी पूर्णिमा समागता । तस्मिन् दिने लोकमध्ये मिथो लाहनानि भ्रमन्ति । भोजनसमये शिवदेवो गृहमागतः तावता ' सुसहजेयम् ' इति यशोमत्या गृहे लाहनानि समेतानि । ततः शिवदेवो भोक्तुं निविष्टः ।
अत्रान्तरे तद्वासनाप्रेरित इव गोचरचर्याक्रमेण कोऽपि ऋषिः शिवदेवभवने समागतः । तं दृष्ट्वा रोमाञ्चितेन तेन चिन्तितम् -
" "मरुत्थलीए जह कप्परुक्खो, मायंगगेहे जह हस्थिराया ।
दरिदगेहे जह हेमवुट्ठी, मुणी महप्पा तह अम्हगेहे ॥४१८।।। 'एआई ताई चिरचितिआई तिन्नि वि कमेण पत्ताई ।
साहूण य आगमणं वित्तं च मणप्पसाओ अ ॥४१९।। सर्वथा पुण्यवानहम् , एतल्लाभार्थ क्षीणा मे धनऋद्धिः” इति भावयता तेन सम्मुखं गत्वा ऋषिर्वन्दितः । ततोऽनेन कूरभाजनं गृहीत्वा तदर्द्ध दत्तम् , 'जननी खेदं मा कार्षीः ' इति शक्कया सर्व न दत्तम् , पुनर्गृहीतं पायसभाजनं तस्यापि तथैवार्द्ध दत्तम् , पुनर्दत्तौ खण्डशर्करागी द्वौ मण्डको । अत्रान्तरे सर्वरससम्पूर्णस्थाली समागता, ततो जनन्या भणितःवत्स ! एतदपि महाभागाय ऋषये देहि । ततो वर्द्धमानशुभाध्यवसायेन ऋषोंकिता स्थाली । ऋषिणाऽपि श्रद्धावृद्धिं दृष्ट्वा कवलमात्रं गृहीतम् , भणितं च - धर्मशील ! सम्पूर्ण जातम् , इदानीमाग्रहं मा कुरु । ततो भक्ति-बहुमानपूर्व हृष्टमुखपङ्कजेन कृतकृत्यमात्मानं मन्यमानेन शिवदेवेन कृतवन्दनानुव्रजनो मुनिनिर्गतः ।
अत्रान्तरे लाहनकहस्ताभिः पञ्चभिः कन्याभिः शिवदेवः प्रशंसितः - "हे गुणवज्जनसज्जनशिरोमणे ! त्वं धन्योऽसि येनेदशे सुपात्रे वितीर्णमिति, अपि च -
1. प्राप्तेऽपि च प्राघूर्णके कि करिष्यति दुर्गतः त्वरन्नपि ?, अन्धः मिलतः अपि लौचनैः अन्धः एव वराकः ॥
2. मरुस्थल्यां यथा कल्पवृक्षः, मातङ्गगृहे यथा हस्तिराजः, दरिद्रगेहे यथा हेमवृष्टिः, मुनिः महात्मा तथा अस्मद्गेहे ॥
3. एतानि तानि चिरसञ्चितानि त्रीणि अपि क्रमेण प्राप्तानि साधूनां च आगमनम् , वित्तं च, मनःप्रसादश्च ॥

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132