Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 118
________________ जिनदत्तनृपस्य केवलज्ञानावाप्तिर्निज पूर्वभवकथनं च स्थैर्यं सर्वेषु कार्येषु शंसन्ति नयपण्डिताः । बह्वन्तरायविघ्नस्य धर्मस्य त्वरिताः गतिः ॥ ४०९ ॥ " ततः सभ्यलोकैः पृष्टम् - भगवन् ! निजं भवस्वरूपं श्रावय । ततः केवलिना प्रोक्तम्[ जिनदत्तकेवलिकथिता निजपूर्वभवकथा ] जम्बूद्वीपेऽत्र दक्षिणभरतार्द्धे मध्यमखण्डे बहुनगर- प्रामाऽऽकर- पत्तनादिभूषितोऽवन्तिनामा देशः । तत्र चण्डप्रद्योतं गृहीत्वा स्वदेशं गच्छता उदायननृपेण निवेशितं दशपुरं नाम नगरं सर्वद्धिप्रवरं वापी-कूप-तटाकादिशोभितमस्ति । तत् पुरं पुनश्वन्तिनाथो हप्तारिवारनिवारणो विक्रमवर्मनामा राजा प्रतिपालयति । तत्र पुरे शिवधननामा वणिग् वसति । तस्य भार्या यशो - मती समयौवन-रूप- शीलसम्पन्नाऽस्ति । तयोः पूर्वार्जितपुण्यफलमनुभवतोः कालक्रमेण शिवदेवनामा पुत्रो जातः । यावता सोऽप्टवर्षो जातः तावता पिता शिवधनः शिरोवेदनया पञ्चत्वं प्राप्तः । ततो यशोमती पतिविरहाग्निज्वलितहृदया विविधकरुणप्रलापपरायणा तस्य मृतकृत्या नि कृत्वा चिन्तयति, यथा - 66 1 अव्वो ! किं नाम मए विच्छोहो कस्सई पुरा रहओ ? | पडिआ जेणाऽयंडे दुक्खचडका मह सिरम्मि ॥४१०॥ "वयभंगो किंव कओ ?, 'रंडा होसु 'त्ति का परिसविआ । ॥ ४११ ॥ हा हा ! केरिसपावस्स एरिसं घोरमाहप्पं ९१ किंवा कयंत ! निग्विण ! अवरद्धं किं पि तुज्झ मे पुव्वं ? | इअ दुस्सहाई जेणं कोवफलाई पयंसेसि ॥ ४१२॥" एवं सा विलपन्ती पुरपुरन्ध्रीभिः करुणया संस्थापिता तं बालं पालयति । अत्रान्तरे स्तोकदिनमध्ये न ज्ञायते विभवः कुत्राऽपि गतः । ततस्तया चिन्तितम् - “ धनिकेन सह धनं गतम्, द्रारिद्र्यं प्रसृतम्, पुण्यैरथों भवति, तानि पुण्यानि भर्त्रा सह गतानि, अथ मम निर्भाग्यायाः को जीवनोपायः परगृहकर्मकरणं विनाऽन्योपायो नास्ति, अहो ! विधिविलसितं मद्गृहे ये योजितहस्ताः कर्म कुर्वन्ति स्म तद्गृहेषु मया कथं कार्य 1. अहो ! किं नाम मया वियोगः कस्यचित् पुरा रचितः ? पतिता येन अकाण्डे दुःखविद्युद् मम शिरसि ॥ 2. व्रतभङ्गः किं वा कृतः ?, ' रण्डा भव' इति काऽपि परिशप्ता, हा हा ! कीदृशपापस्य ईदृशं घोरमाहात्म्यम् ॥ 3. किंवा कृतान्त ! निर्घुण ! अपराद्धं किमपि तत्र मया पूर्वम् ?, एवं दुःसहानि येन कोपफलानि प्रदर्शयसि ।

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132