Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
दीक्षाग्रहणविषये जिनदत्त - तदमात्ययोः संवादः
""
ततो देव ! त्वमपि गृहस्थ एव धर्मध्यानं मोक्षहेतवे कुरु
।
विशिष्टः श्रावकस्तप्तायोगोलकल्प एव यदुक्तम् -
---
ततो राजा प्राह " भो मन्त्रिन् ! एतान् भरतादीन् गृहिकेवलिनः प्रत्येकं पश्य, यदेषां सर्वेषां भावचारित्रेणैव केवलज्ञानमजनि, एषां भवितव्यताऽपि तादृशी बभूव, पुनरीदृशा गृहिकेवलिनो गणिता एव जाताः, तत् तदालम्बनं न ग्राह्यम्, यदुक्तम्जाणिज्ज मिच्छदिट्ठी जे पडणालंबणाई धिप्पंति ।
पुण सम्मट्ठी जेसि मणो चडणपयडीए ॥ ३९८॥
-
" जीवधायरओ धम्मं जं कत्थइ कुणई गिही ।
साधुधम्मगिरिंदस्स राइभित्तो वि नो इमो || ३९९॥
८९
तथा गर्भयोगिनो जितेन्द्रिया अपि तीर्थकरा यदि संयमं गृहीत्वा तपः कुर्वन्ति ततः परेषां किमुच्यते ? यतः
" तित्थयरो चउनाणी सुरमहिओ सिज्झियव्वयधुवम | अणिमूहियबलविरओ सव्वत्थामेण उज्जमइ ॥४०० ॥ * किं पुण अवसेसेहि दुक्खक्खयकारणा सुविहिएहिं । होइ न उज्जमियव्वं सपच्चवायम्मि माणुस्से : ॥ ४०१ ॥ "
[ प्रव्रजितुकामस्य जिनभवनस्थितस्य जिनदत्तस्य केवलज्ञानावाप्तिः, जिनदत्तकेवलिनो देशना च ]
इत्युक्त्वा वैराग्यरङ्गितो राजा संयमग्रहणायेोदतिष्ठत् । तेन प्रधानेन बहूक्तियुक्तिवारितोऽपि न तस्थौ, यद् गजः कर्णगृहीतः सिंहः शृङ्खलाबद्धश्च न तिष्ठिति । तथा -
विषयगणः कापुरुषं करोति वशवर्तिनं, न सत्पुरुषम् । बध्नाति मशकमेव हि लूतातन्तुर्न मातङ्गम् ॥४०२॥
ततो राजा श्रीजिनदत्तो दीक्षाग्रहणार्थं गुरुपार्श्वे गन्तुकामश्चचाल । ततः पृष्ठलग्नानां करौ योजयित्वा संयमाद् वारयतां पुत्र- प्रियादिसर्वस्वजनानां पौरजनानां च मोहवचनानवगणय्य
1. जानीयात् [ तान् ] ' मिथ्यादृष्टीन् ' ये पतनालम्बनानि गृह्णन्ति । ते पुनः सम्यग्दृष्टयः येषां मनः आरोहणप्रकृतौ ॥
2. जीवघातरतः धर्मे यं कुत्रचित् करोति गृही, साधुधर्मगिरीन्द्रस्य राजिकामात्रोऽपि न अयम् = गृहिधर्मः ॥ 3. तीर्थकरः चतुर्ज्ञानी सुरमहितः ध्रुवसेधितव्ये अनिगूहितबलवीर्यः सर्वस्थाम्ना उद्यच्छति ॥ 4. किं पुनः अशेषैः दुःखक्षयकारणाय सुविहितैः भवति न उयमितव्यं सप्रत्यपाये मानुष्ये ॥
J-12

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132