Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 114
________________ दीक्षाग्रहणविषये जिनदत्त-तदमात्ययो संवादः ८० ततो राजाऽऽह – मादशां विवेको धर्मश्च क्वास्ति ?, यदहं महारम्भ-परिग्रहजम्बाले ग शूकर इव मग्नोऽस्मि, संसारव्यापारलग्नोऽस्मि, तथा यदि देश-राज्यादिकार्याणि स्वयं कुर्वन्नस्मि परैरपि कारयन्नस्मि तदित्थं कर्मबन्धे मम मोक्षः क्वाऽपि नास्ति । अथ मन्त्र्यवोचत् – “हे भूप ! तव चितं तावदतीव शुद्धमस्ति, निमलचित्तस्य तु वाक्कायाभ्यां कर्म कुर्वतोऽपि पद्मिनीपत्रस्येव लेपो न स्यात् , अथ स्तोक एव कर्मबन्धो भवति, यदुक्तम् - उल्लो सुक्को य दो छूढा गोलया मट्टियामया । दो वि आवडिया कुड्डे, जो उल्लो सोऽत्थ लग्गई ॥३८५॥ .. एवं लग्गति दुम्मेहा, जे नरा कामलालसा । विरत्ता उ न लग्गति, जहा से सुक्कगोलए ॥३८६॥ तथा - वावाराणं गुरुओ मणवावारो जिणेहिं पन्नत्तो । जो णेइ सत्तमीए, अहवा मुक्खं पि जो णेइ ॥३८७॥ अत्र प्रसन्नचन्द्रराजर्षिदृष्टान्तो यथावसरं वाच्यः । तथा ' मम नगरे सर्वलोको धार्मिकः' इति वदतः श्रेणिकस्याऽग्रेऽभयकुमारेण नवीनकारितश्वेत-कृष्णप्रासादबुद्धया पञ्चशतहलशकटाद्यारम्भं कुर्वतामप्यानन्द-कामदेवादीनामेव पुण्यवत्त्वं स्थापितम् , अतो मनःशुद्धिरेव सर्वत्र विलोक्यते, यतः मनःशुद्धिमविभ्राणा ये तपस्यन्ति मुक्तये । त्यक्त्वा नावं भुजाभ्यां ते तितीर्षन्ति महार्णवम् ॥३८८॥ किं बहुना ?, 'मन एव मनुष्याणां, कारणं बन्धमोक्षयोः' । ___अथ राजा ब्रते – “अस्मादृशां कषाय-विषयाक्रान्तानां मनःशुद्धिः क्वाऽस्ति ! साऽपि केवलां क्रियां विना मोक्षफलदा न भवति, यदुक्तम् - क्रियैव फलदा पुसां, न ज्ञानं फलदं मतम् । यथा स्त्री-भक्ष्यभोगज्ञो न ज्ञानात् सुखितो भवेत् ॥३८९।। 1. आर्द्रः शुष्कश्च द्वौ क्षिप्तौ गोलको मृत्तिकामयौ द्वावपि आपतितौ कुड्ये, यः आर्द्रः सोऽत्र लगति ॥ 2. एवं लगन्ति दुर्मेधसः ये नराः कामलालसाः, विरक्तास्तु न लगन्ति, यथा स शुष्कगोलकः ॥ 3. व्यापाराणां गुरुकः मनोव्यापारः जिनः प्रज्ञप्तः; यः नयति सप्तम्याम् , अथवा मोक्षमपि यो नयति ॥

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132