Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
८८
तथा
जिनदत्तकथानकम्
1
आउज्ज - नट्टकुसला वि नट्टिया तं जणं न तोसेइ । जोगं अजुंजाणी निंद खिसं च पावेइ || ३९०॥
तथा क्षायिकसम्यक्त्वमपि मनः शुद्धेरेव, तेनापि चारित्रं विना मोक्षो न भवति, यदुक्तम् - दसारसीहस्स य सेणियस्स, पेढालपुत्तस्स य सच्चइस्स ।
अणुत्तरा दंसण संपया तया, विणा चरित्रेण अहोगइं गया ॥ ३९२ ॥ इत्यहं जानन्नपि संसारं दुःखभाण्डागारं पश्यन्नपि पुत्र- कलत्रादिपरिहारं कृत्वा संयमाङ्गीकार - मद्यापि भुक्तभोगोऽपि जातजरायोगोऽपि यन्न करोमि तेनाऽऽत्मानं शोचामि " ।
ततो मन्त्र्यूचे -- “ प्रभो ! गार्हस्थ्येऽपि संयमफलं लभ्यते, यदुक्तम् -
" जाणंतो वि य तरिउं काइयजोगं न जुंजइ नईए । सो वुज्झइ सोएणं, एवं नाणी चरणहीणो ।। ३९१॥
"
वनेऽपि दोषाः प्रभवन्ति रागिणां गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपः । अकुत्सिते कर्मणि यः प्रवर्त्तते, निवृत्तरागस्य गृहं तपोवनं ॥ ३९३॥
इत्याहोरात्रिकीं चर्यामप्रमत्तः समाचरन् ।
यथावदुक्तवृत्तस्थो गृहस्थोऽपि विशुध्यति ॥ ३९४ ॥
सामायिकव्रतस्थस्य गृहिणोऽपि स्थिरात्मनः ।
चन्द्रावतंसकस्येव क्षीयते कर्मसञ्चितम् || ३९५ |
पुनरन्तः पुरस्थस्यापि भरतचक्रधरस्य केवलज्ञानं जज्ञे, तथा वंशाग्रे नृत्यन्निलापुत्रः केवली जातः, तथा प्राणिग्रहणं कुर्वतोऽप्टभिः प्रियाभिः सह गुणसागरनाम्नो व्यवहारिसुतस्य चतुरिकामध्ये केवलज्ञानमुदपद्यत, तथा
किंबहुना ?,
-
श्रावको बहुकर्मापि, पूजाद्यः शुभभावतः । दलयित्वाऽखिलं कर्म, शिवमाप्नोति सत्वरम् ॥ ३९६॥
* गिहासमसमो धम्मो को अण्णो एत्थ विज्जइ ? |
दिज्जति जत्थ दाणाई दीणाऽणाहाइपाणिणं ॥ ३९७॥
1. आतोय - नाट्यकुशलाsपि नर्तिका यद् जनं न तोषयति योगं अयुञ्जाना, निंदां खिसां च प्राप्नोति ॥ 2. जनन्नपि तरितुं काययोगं न योजयति नद्यां स उद्यते श्रोतसा, एवं ज्ञानी चरणहीनः ॥ 3. दशारसिंहस्य च श्रेणिकस्य पेढालपुत्रस्य च सत्यकिनः अनुत्तरा दर्शनसम्पदा तदा, विना चरित्रेण अधोगतिं गताः ॥ 4. गृहाश्रमसमः धर्मः कः अन्यः अत्र विद्यते ?, दीयन्ते यत्र दानानि दीनानाथादिप्राणिभ्यः ||

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132