Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
जिनदत्तनृपस्य धर्मप्रवृत्तिः
वाहिमवणे भावे कुणइ अभावे तयं तु पढमम्मि । मवणे न कुणइ तइयं तु रसायणं होई || ३५२ ।। भाग्येन विदधे तस्य लक्ष्मीरक्षीणकोशताम् । अतोऽसौ सर्वलोकानां मुमुचे सकलान् करान् ॥ ३५३ ॥ प्रजास्तस्मिन् नृपेऽभूवन् निरातङ्का निरामयाः । चिरायुषो महासौख्याः शुद्धसन्ततिशालिनः ॥ ३५४॥ लक्ष्मीः सरस्वती चापि विरोधं स्वस्वभावजम् । विमुच्य भूपं भेजाते रेजाते ते ततोऽधिकम् ॥ ३५५॥
ये भूपा भरतार्द्धेऽस्मिन् विक्रमाक्रान्तशत्रवः । तैरप्यसेवि तत्पादद्वयी पुण्यानुभावतः ।। ३५६॥ तस्य विद्याबलेनाथ नाथा विद्याभूतामपि । वशीभूताः पदाम्भोजसेवा हेवा किनोऽभवन् ॥ ३५७॥ विमलमती - श्रीमती मुख्यप्रणयिनीभवाः । कुमारा भूरयोऽभूवंस्तस्य शस्यगुणालयाः ॥ ३५८ ॥ प्रतिदेशं प्रतिद्रङ्गं प्रतिग्रामं प्रतिनजम् । भूपतिः कारयामास जिनचैत्यधरां धराम् || ३५९ ॥ विमानं नित्यमारुह्य, मनश्चिन्तितसंज्ञकम् । शत्रुञ्जयादितीर्थेषु यो देवान् सप्रियोऽनमत् ॥३६०॥ अक्षुद्ररूप-सौम्यादिगुणा ये एकविंशतिः । श्रावकत्वोचिताः सन्ति भूपतिस्तानशिश्रियत् ॥३६१॥ सम्यक्त्वमूलद्वादशव्रतानि च निरन्तरम् ।
सप्रियः ससुतो भूपः स्वप्रजावदपालयत् ॥ ३६२॥
"
[ अरिमर्दनमुन्यादीनां वसन्तपुरागमनं ततो विहरणं च ]
एकदा विहरन्तोऽत्र श्री अरिमर्दनादयः ।
महर्षयो महापूज्या वसन्तपुरमागमन् ॥ ३६३॥
1. व्याधिं अपनयति, भावान् करोति अभावान् तत् तु प्रथमे । द्वितीयं अपनयति, न करोति तृतीयं तु रसायनं भवति ॥
દરે

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132