Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 109
________________ जिनदत्तकथानकम् - उड्ढमहो तिरिएसुं० ॥ ३४५ ॥ ततश्चतुर्विधश्रीसङ्घस्य चतुर्विधाहार-वन्दनादिप्रकारतो भक्ति चकार सविचारः पृथ्वीपतिः, यदुक्तम् - यद्भक्तेः फलमर्हदादिपदवी मुख्यं कृषः सस्यवत् , चक्रित्व-त्रिदशेन्द्रतादिपदवी प्रासङ्गिक गीयते । शक्ति यन्महिमस्तुतौ न दधते वाचोऽपि वाचस्पतेः, सङ्घः सोऽघहरः पुनाति चरणन्यासैः सतां मन्दिरम् ।।३४६॥ य एवं सप्तक्षेत्र्यां धनं व्ययति स धन्यो महाश्रावको भण्यते, यदुक्तम् - आढ्याः सन्ति भुवस्तले प्रतिपुरग्राम कियन्तोऽपि ते, येषां चित्तमलङ्करोति धरणी वृद्धया च नाशेन च । बिम्बे बिम्बनिकेतने जिनपतेः सङ्घ च भट्टारके, ज्ञाने त्यागमुपैति यस्य सततं, धन्यस्ततो नापरः ॥३४७।। एवं व्रतस्थितो भक्त्या सप्तक्षेव्यां धनं वपन् । दयया चातिदीनेषु महाश्रावक उच्यते ।।३४८।। यः सद् बाह्यमनित्यं च क्षेत्रेषु न धनं वपेत् । कथं वराकश्चारित्रं दुश्चरं स समाचरेत् ? ।।३४९॥ पुनरयं भूपतिरवश्यमावश्यकमुभयकालं कर्मक्षयकृते करोति स्म, यदुक्तम् – प्रणिहन्ति क्षणार्द्धन साम्यमालम्ब्य कर्म तत् । यन्न हन्यान्नरस्तीव्रतपसा जन्मकोटिभिः ॥३५०॥ आरंभस्स निवारण सुहमणोवित्तीइ जं कारणं, अक्खारीण निरोहणं दिण-निसापच्छित्तसंसोहणं । कम्माणं मुसुमूरणं तवसिरीभंडारसंपूरणं, तं धन्ना भवनासणं अणुदिणं सेवंति आवस्सयं ॥३५१॥ तथैतत् प्रतिक्रमणं वैद्यस्य तृतीयौषधवत् सकलदोषव्याधिमपनीय पुण्याङ्गपुष्टि करोति, यदुक्तम् - 11. भारम्भस्य निवारणम् , शुभमनोवृत्तः यत् कारणम् , अक्षारीणां निरोधनम् , दिन-निशाप्रायश्चित्तसंशोधनम् , कर्मणां भञ्जनम् , तपःश्रीभाण्डागारसम्पूरणम् , तद् धन्याः भवनाशनं अनुदिनं सेवन्ते आवश्यकम् ॥

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132