Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
जिनदत्तकथानकम् 1 धन्नाण निवेसिज्जइ, धन्ना गच्छंति पारमेईए ।
पारं इमीइ गंतुं पारं दुक्खाण वच्चंति ॥३३६।। ततो जिनदत्तो राजा सम्यक्त्वमूलं गृहिधर्म प्रतिपद्य धन्यम्मन्यो नगरं गतः । गुरवोऽन्यत्र सपरिच्छदा विजहः ।
[जिनमन्दिरनिर्मापणानन्तरं जिनदत्तस्य धर्मप्रवृत्तिवर्णनम् ] अन्यदा राजा जिनराजभक्तिप्रेरितो वसन्तपुरे उत्तुङ्गतोरणं हिमगिरिशिखराणुकारिणं जननयनमनोहारिणं परितो द्वासप्ततिदेवकुलिकाविराजमानं स्वर्गविमानसमान महीमहिलालङ्कारहारं महान्तमेक राजविहारं कारयामास, प्रासादफलं महदस्ति । यदुक्तम् -
जैन मन्दिरमादरेण कुरुते द्रव्यानुसारेण यस्तार्ण दारवमिष्टकादिरचितं हर्षोल्लसन्मानसः । चञ्चत्काञ्चनभित्तिसन्मणिमयस्तम्भाभिराम मह
दिव्यश्रीकुलसङ्कुलं स लभते कल्पे विमानोत्तमम् ॥३३७॥ तत्र चैत्ये त्रिसन्ध्यवाद्यमानपटुपटहध्वनिधौकारो झल्लरीझात्कारो बहुतरप्रौढतरघण्टारणत्कारोऽपि नित्य जायते, तथा प्रत्यहं राजादेशान्नटीनाट्यविधानं गान्धर्वगीतगान च प्रवर्त्तते,
"सयं पमज्जणे पुण्णं, सहस्सं च विलेवणे ।
सयसाहस्सिआ माला, अणंतं गीअवाइए ।।३३८।। तथा सुवर्णादिमयानि विशालस्थाल-सारभृङ्गारकलश-मङ्गलप्रदीपा-ऽऽरात्रिक-चन्दनकच्चोलिकावासकुम्पिका-स्नात्रजलकुण्डिका-धूपधाना-ऽवधर्षादीनि पूजोपकरणानि नरनारीयोग्यधौतिकाशतं च दुकूलचन्द्रोद्योतशतं चाक्षतपट्टमष्टमङ्गलपट्टमन्यदपि चैत्योपकरण कोशापवरिकां भूषणमञ्जूषां च वसुधापतिविधिज्ञो विधापयति स्म । तथा रत्नजटितसुवर्णजातिमुकुट-कुण्डल-धिकृतार्कमण्डलमामण्डल-हार-पर्यस्तिका-बाहुरक्षक-तिलक-चक्षुः-श्रीवत्सप्रमुखानार्हतानलङ्करान् कारितवानात्मालङ्कारकृते कृती क्षितीश्वरः । तथा भूपतिस्त्रिभुवनपतिजिनपतिचैत्ये चतुर्दा रे विचित्ररचनायुतं मण्डपानामष्टोत्तरशतं सूर्यकान्त-स्फटिकादिमणिप्रभाकृतदिनारम्भान् सहस्रस्तम्भान् , मणिसुवर्णमयानि सोपानानि, सुवर्णमयं भूपीठ, सुवर्णमयान् कलशाऽऽमलसारकान्, लहलहायमानपञ्चवर्णमयीध्वजपताकाश्च निर्मापयामास, निर्मायमनाः । तथा मणि-रत्न-स्वर्ण-रूप्य-पित्तल-प्रवाला
. 1. धन्येषु [ प्रव्रज्या ] निवेश्यते, धन्याः गच्छन्ति पारमेतल्याः, पारमेतस्या गत्वा पारं दुःखानां गच्छन्ति 2 शत प्रमार्जने पुण्यम् , सहस्रं च विलेपने, शतसाहसिका माला, अनन्तं गीतवाद्ये ॥
-

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132