Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 106
________________ अरिमर्दननृप-जिनदेव श्रेष्ठ्यादीनां दीक्षाग्रहणम् गहियं जेहिं चरित्तं जलं व तिसिएहि गिम्हपहिएहिं । कयसुगईपत्थयणा ते मरणंते न सोयति ।।३३१॥ 'को जाणइ 'पुणरुत्तं होही कइया वि धम्मसामग्गी?'। रंकधवं कुणसु महव्वयाण इण्हि पि पत्ताणं ॥३३२।। एगदिवसं पि जीवो पव्वज्जमुवागओ अणन्नमणो । जइ वि न पावइ मुक्खं, अवस्स वेमाणिओ होइ ।।३३३॥ ॥ बोधिः १२॥ इति देशनां श्रुत्वा सञ्जातपरमवैराग्यः श्रीअरिमर्दनः करौ योजयित्वा भणति - भगवन् ! भवसमुद्रात् संयमयानपात्रेण मां तारयति । अत्रान्तरे सप्रियो जिवदेवश्रेष्ठी जिनदत्तमुवाच - " हे वत्स ! संयमार्थमस्माननुमन्यस्व, सुपुत्रो भूत्वाऽस्मांस्तारय, पुनरेवंविधा सामग्री क्व भवे मिलिप्यति ?, यदुक्तम् - लद्धिल्लियं च बोहिं० ॥३३४॥ ततो वत्स ! वृथा धर्मान्तरायं मा कृथाः, त्वादृशे पुत्रे सति वयं यदि दुर्गतिं पतिष्यामः तत् कस्य पितरः स्वर्ग गन्तारः !, तन्मोहं विमुच्यानुमति देहि "। ततो जिनदत्तो दध्यौ - " एकमग्रेऽपि पितरौ संयमाथिनावभूताम् , द्वितीयं गृहोस्थितोऽयं सार्थों जातः, यद्यवादिते नृत्यति तर्हि वादेिते किमुच्यते ?, अथ वारितावपि पितरौ न स्थास्यतः, केवलं खेदं धरिष्यतः, यद्यहमेवं वक्ष्यामि ‘तातपादा राज्यं कुर्वन्तु, अह तु प्रव्रजिष्यामि' तदप्यनुचितं प्रतिभासते, यतः पितुश्चतुर्थाश्रमो वर्तते, ततः शैशवे यथा पित्रोः प्रसादान्निश्चितेन मया धर्मध्यानमेव कृतं तथा सम्प्रति मत्सान्निध्येन परलोकमाराधयताम्" । इति विचिन्त्य दीक्षानुमतिं दत्त्वा सर्वेषां प्रव्रज्यामहोत्सवं जिनदत्तश्चक्रे । तदा वैराग्यसनतास्तदनुगताः पञ्चशताः व्यवहारि युता राजराजसुताः प्रव्रजिताः । अथ गुरुरनुशास्ति ददाति, यथा - अहो ! पवित्रीकृतमद्य गात्रं, कुलं च चक्रे सकलं समुज्ज्वलम् । नाम स्वकीयं लिखितं च चन्द्रे, प्रव्रज्यया स्वीकृतया त्वया च ।।३३५।। 1. गृहीतं यः चारित्रं जलं इव तृषितै ग्रीष्मपान्थैः कृतसुगतिपाथेयाः ते मरणान्ते न शोचन्ते ।। 2. को जानाति ' वारं वारं भविष्यति कदापि धर्मसामग्री ? ' रङ्कतृप्तिं कुरु महाव्रतानां इदानीमपि प्राप्तानाम् ॥ 3. एकदिवसमपि जीवः प्रव्रज्यामुपागतः अनन्यमना: यद्यपि न प्राप्नोति मोक्षम् , अवश्यं वैमानिको भवति ॥

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132