Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 100
________________ ७३ अरिमर्दननृपस्य वैराग्यभावनादि " 1निसाविरामे परिभावयामि – गेहे पलित्ते किमहं सुयामि ? । डझंतमप्पाणमुविक्खयामि जं धम्मरहि ओ दियहे गमामि ॥२८३।। माणुस्सजम्मे तडिलद्धएणं० ॥२८४।। "कह आयं ? कह चलिय ?, तुम पि कह आगओ ? कहं गमिहि । अन्नन्नं पि न याणह, जीव ! कुडुंब कओ तुज्झ ? ।।२८५।। श्वः कार्यमद्य कुर्वीत, पूर्वाह्न चापरालिकम् । मृत्युनहि प्रतीक्षेत, कृतं चास्य कृताकृतम् ।।२८६॥ आयुयौवन-वित्तेषु स्मृतिशेषेषु या मतिः । सैव चेज्जायते पूर्व' न दूरे परमं पदम् ।।२८७।। विलम्बो नैव कर्तव्यः आयुर्याति दिने दिने । न करोति यमः क्षान्ति, धर्मस्य त्वरिता गतिः ॥२८८।।" इति चिन्तयतो राज्ञो द्विधाऽपि प्रभातं जातम् । यथा - निद्रा मोहमयी जगाम विलयं सच्चक्षुरुन्मीलितं, नप्टा दुष्टकषायकौशिकगणा माया ययौ यामिनी । पूर्वाद्रिप्रतिमे नरेन्द्रहृदये सज्ज्ञानसूर्योदयात् , कल्याणाम्बुजकोटयो विकसिता जातं प्रभातं ततः ॥२८९।। [धर्मघोषमुनिदेशनाश्रवणानन्तरमरिमर्दननृप जीवदेवश्रेष्ठि जिनश्रीश्रेष्ठिनीनां दीक्षाग्रहणम् ] . ततः प्रातर्मङ्गलतूर्याणि नदन्ति । अथ 'गुरुवो यदि मम भाग्येनात्र समायान्ति तदाऽहं परलोकं साधयामि' इति चिन्ता यावता राज्ञः सजाता तावदारामिकेणाऽऽगत्य निजारामे गुर्वागमेन राजा वद्धितः । घनगर्जितमिव केकी गुर्वागमन श्रुत्वा हर्षनृत्यं तन्वानो राजा दध्यौ - "अहो ! भाग्यमहो भाग्य, अहो ! मेऽद्य महोत्सवः । अरि रे धर्मसामग्री, कटरे कर्मलाघवम् ॥२९०॥ ___-1. निशाविरामे परिभावयामि - गृहे प्रदीप्ते किमहं स्वपीमि ? दह्यमानमात्मानं उपेक्ष्ये यद् धर्मरहितो दिवसान् गमयामि || 2. कथमायातम् ? कथं चलितम् ? त्वमपि कथं आगतः ? कथं गमिष्यसि ? अन्यान्यमपि न जानीषे जीव ! कुटुम्बं कुतस्तव ? ।। J-10

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132