Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 98
________________ ...... ... असन्तो जिनदत्तं प्रत्यरिमर्दनस्य निजपुत्री-राज्यस्वीकारप्रार्थना - ५ संसारमूलमारम्भास्तेषां हेतुः परिग्रहः । तस्मादुपासकः कुर्यादलपमल्पं परिग्रहम् ।।२७३॥ त्रसरेणुसमोऽप्यत्र न गुणः कोऽपि विद्यते । दोषास्तु पर्वतस्थूलाः, प्रादुप्षन्ति परिग्रहे ॥२७४॥ परिग्रहमहत्त्वाद्धि मज्जत्येव भवाम्बुधौ । महापोत इव प्राणी, त्यजेत् तस्मात् परिग्रहम् ॥२७५॥ असन्तोषवतः सौख्यं न शक्रस्य न चक्रिणः । जन्तोः सन्तोषभाजो यदभयस्येव जायते ॥२७६।। स्वाधीन राज्यमुत्सृज्य, सन्तोषामृततृप्णया । निःसङ्गत्वं प्रपद्यन्ते, तत्क्षणाच्चक्रवर्तिनः ॥२७७॥ जीवन्तोऽपि विमुक्तास्ते ये मुक्तिसुखशालिनः । किं वा विमुक्तेः शिरसि, शृङ्ग किमपि वर्तते ? ॥२७८॥ असन्तोषे हि लोभपिशाचो हृदये सङ्क्रम्य विविधां व्यथां विदधाति, यदुक्तम् - सर्वविनाशाश्रयिणः सर्वव्यसनैकराजमार्गस्य । लोभस्य को मुखगतः क्षणमपि दुःखान्तरमुपेयात् ? ॥२७९।। महताऽप्यर्थलाभेन, न लोभः परिभूयते । मात्राधिको हि किं क्वापि, मात्राहीनेन जीयते ॥२८०॥ 'सुवन्नरुपस्स य पव्वया भवे, सिया हु केलाससमा असंखया । नरस्स लुद्धस्स न तेहिं किंचि, इच्छा हु आगाससमा अणंतया ॥२८१॥ (उत्तराध्ययनसूत्र, अध्ययन ९, गाथा ४८) एवम् 'असंतोषमुख्यदोषलक्षपोषकरोऽयं परिग्रहः' इति जानन् पुनस्तमहं कथं करोमि ?" । इति ध्यायन् श्री जिनदत्तश्चटिकागृहीतबदरन्यायगतस्तदा नीचेरेव विलोक्य स्थितः । .. ततो निरीहतया सत्यसीमतया चाङ्गीकार-नकारवाक्ययोरेकतरमपि वक्तुमक्षम क्षमापति 'वीक्ष्य श्रीअरिमर्दनेन भूसंज्ञया प्रेरितो जीवदेवश्रेष्ठी हृष्टः स्पष्टमेवाचष्ट – “हे शिष्टमते! सामान्यस्यापि वचो मान्यम् , किं पुनरस्य मुक्तिकामनृपस्य ? तथा हे वत्स ! सत्पुरुषाः ____ 1. सुवर्ण-रूप्यस्य च पर्वताः भवेयुः, स्यात् - कदाचित् , हु - अवधारणे, कैलाससमाः असंख्यकाः, नरस्य लुब्धस्य न तैः किञ्चित् , इच्छा हु- यस्माद् आकाशसमा अनन्तिका।

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132