Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
जिनदत्तकथानकम् सति तदप्रतीति ज्ञात्वा पुनः श्रीजिनदत्तो वदति – “ हे अविश्वासनीतिज्ञ ! यदद्याऽपि तव चित्ते प्रत्ययो नास्ति तदाऽहं सर्वथाऽप्यकृत्यान् शपथानपि कुर्वे, यथा - राजन् ! यद्यहं तव वचनं न मानयामि तर्हि निशिभोजनकारिणां मद्य-मांसाद्यभक्ष्याहारिणां वा पापेन गृह्ये, तथा श्रीसंघाद्यवर्णवादिनां कन्यालीकादिपञ्चमहाकूटवादिनां वा पापेन गृह्ये, तथाऽपूतजलपायिनां सुबुद्धिप्रच्छकेषु कुबुद्धिदायिनां वा पापेन गृह्ये, तथा शिष्यता-सेवकतामिषेण गुरु-स्वामिद्रोहकारिणां पञ्चेन्द्रियजन्तुमारिणां वा पापपङ्केन लिप्ये, तथा देवद्रव्य-ज्ञानद्रव्यभक्षिणां साध्वीशीलभङ्गकारिणां वा पापेन लिप्ये, गुणपश्चाद्दोषपोषिणां दीर्घरोषिणां वा पापेन लिप्ये"। इत्येवंविधान् विविधान् शपथान् कुर्वन्तं निवार्य प्रीतः श्रीअरिमर्दन उवाच -- “हे धराधरणधौरेय ! यद्येवं तर्हि कन्याकरग्रहणपूर्वकं मम स्कन्धतो राज्यव्यापारभारमुत्तारय, यदहं जरद्व इव चिरोद्धतं भूभार वोढुं साम्प्रतमसमर्थोऽस्मि, ततस्तत्र त्वां धवलगुणं मोक्तुमिच्छामि, एतावता त्वं जामाता लोकत्राता च भव, यथाऽहं तव सान्निध्येन गगनादुच्चतरे त्रैलोक्यसुन्दरे तत्त्वश्रद्धानपीठबन्धवरे बाल्य-यौवन-वृद्धत्वभूमित्रयाधारे प्रतिभूमिसञ्जातद्वादशव्रतसोपाननिकरे दान-शील-तयो-भावचतुःशालरुचिरे मनुष्यजन्ममन्दिरे संयमसुवर्णकलशमारोपयामि, एतावता तव साहय्यान्मम भागवती भवभयभङ्गदक्षा दीक्षा भवतु' । इति श्रुतिभ्यां श्रुत्वा हृदयोदयाचलसमुदितविवेकादित्यज्योतिर्विघटितमहामोहान्धकारः प्रास्तसमस्तचित्तविकारः पुनर्दीप्तमहावैराग्येण विस्मृतशपथोच्चारः श्रीजिनदत्तो व्याजहार – हे विचारचतुर ! त्वया किमिदमनुचितमूचे ?, खलु अहं तप्तायोगोलकल्पं सजाताशुभबहुसङ्कल्पविकल्पं कृतदुर्गतिदुःखजल्प स्वल्पमनल्पं वा तव राज्यं न गृह्णाम्येव, यदहं निजभुजाजितं स्वराज्यमपि त्यक्तुकामोऽस्मि तत् त्वदीयं कथमाददे ? । ततो हसित्वा अरिमर्दन उवाच - " हे स्मृतिज्ञाननिधान ! हे सत्यवादिप्रधान ! त्वं निजां वाचं संस्मर, कथं विपर्यस्यसि ?, यदि मनुष्यस्य वाचा गता तदा किं स्थितम् , अलीकं तु निःशेषदोषमूलं श्रूयते, यदुक्तम् -
असत्यमप्रत्ययमूलकारणं कुवासनासद्म समृद्धिवारणम् ।
विपन्निदानं परवञ्चनोर्जितं कृतापराधं कृतिभिर्विवर्जितम् ॥२७२॥" ततो जिनदत्तोऽधोभुवं विलोकमानो दध्यौ - "हहा ! यद्यहं वचनछलसङ्कटे स्वयमेव पतितः तर्हि कस्य कथयामि ?, स्ववाचैव बद्धोऽस्मि, यथा कोलिको निजलालयैव वेष्टयते, यथा कश्चिन्निजतैलेन खरण्ट्यते, यथा कश्चिन्निजशस्त्रेण छिद्यते, अथ अनेन बुद्धिमता राज्ञा पूर्वमेवाहं वचनस्थैर्य तथा जटितः यथाऽधुना त्यजन्नपि न छुटामि, अथ विमृश्य निषेध-स्वीकारयोरेकः कश्चिन्निविलम्बं कथितो विलोक्यते तावन्निषेधे कृते मम धर्ममूलं वाग याति, स्वीकारे तु मूर्छापरिग्रहो भवति, स तु शास्त्रे महारम्भादिदोषैस्त्याज्य एवोक्तोऽस्ति, यदुक्तम् -

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132