Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 95
________________ जिनदत्तकथानकम् नद्यो नीचतरा दुरापपयसः कूपाः पयोराशयः क्षारा दुष्टबकोटसङ्कटतटोद्देशास्तटाकादयः ।। भ्रान्त्वा भूतलमाकलय्य सकलानम्भोनिवेशानिति, त्वां भो मानस ! संस्मरन् पुनरसौ हसः समभ्यागतः ।।२६५॥॥" तदा सर्वेऽपि लोकास्तं स्वस्वबुद्धया 'चिरं जय, जीव नन्द ' इत्याशासमानाः सन्ति । तदा तद्दानप्रीतः कश्चिद् भटो रसालोपमया जिनदत्तमाशीर्वादयति स्म, यथा - 'कन्दे सुन्दरता दले सरलता वर्णेऽपि सम्पूर्णता, गन्धे बन्धुरता फले सरसता कस्याऽपरस्येदृशी ! । एकस्त्वं सहकार ! विश्वजनताधारः समानः सतां, दीर्घायुभव साधु साधु विधिना मेधाविना निर्मितः ॥२६६॥' इत्यादि सर्वलोकप्रशंसायां सत्यां लज्जया नीचैविलोकमानं महाभाग्याधीशसीमानं विश्वविख्यातमहिमानं श्रीजिनदत्तनामानं राजानं दृष्ट्वा श्रीअरिमर्दनो दध्यौ - अहो ! परे निजश्लाघयाऽखर्वगर्वपर्वता इव जायन्ते, अस्य निरभिमानचूडामणेस्तु महाराज्येऽपि निर्मलचित्तमलग्नमेव दृश्यते, असौ लघुरपि निःस्पृहो निःसङ्ग इव दृश्यते, अहं तु वयोवृद्धोऽपि राज्यातृप्तोऽस्मि सारम्भचक्रवर्तीव वत्त । इति भावयन् कर्मविवरेण तदा पुनः परमवैराग्यं प्राप्तः श्रीअरिमर्दनो विमृशति, यथा - " तपो न तप्तं वयमेव तप्ता भोगा न भुक्ता वयमेव भुक्ताः । कालो न यातो वयमेव याताः, तृष्णा न जीर्णा वयमेव जीर्णाः ॥२६७।। अहो ! मादृशाश्चिक्कणकर्माणो जीवाः कियताऽपि कालेन संसारभोगैर्न तृप्यन्ति, यदुक्तम् - 1 पत्ता य कामभोगा कालमणंतं इहं सउवभोगा । अप्पुव्वं पिव मन्नइ तहवि य जीवो मणे सुक्ख ॥२६८।। अतस्तस्य मूढजीवस्य बहुभिरपि मानवभोगैः कीदृशी तृप्तिर्भविष्यति, यदुक्तम् - असुर-सुरपतीनां यो न भोगेषु तृप्तः, कथमिह मनुजानां तस्य भोगेषु तृप्तिः ? । जलनिधिजलपानाद् यो न जातो वितृष्ण स्तृणशिखरकणाम्भःपानतः किं स तृप्येत् ? ॥२६९॥ 1. प्राप्ताश्च कामभोगाः कालमनन्तं इह सोपभोगाः अपूर्व इव मन्यते तथापि च जीवो मनसि सुखम् ।

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132