Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 93
________________ ... जिनदत्तकथानकम् ............ प्रारभ्यते न खलु विघ्नभयेन नीचैः, प्रारभ्य विघ्नविहता विरमन्ति मध्याः । विघ्नः पुनः पुनरपि प्रतिहन्यमानाः, प्रारब्धमुत्तमजना न परित्यजन्ति ॥२६॥ तथा हे नरनाथ ! मदारब्धेऽत्र सकटे तव सम्यक सत्त्वपरीक्षा जाता, यदुक्तम् - उपाया बहवः प्राज्ञैः, कृताः स्वर्णपरीक्षणे । सत्त्वतत्त्वपरीक्षायां विपदेव कषोपलः ॥२६१॥ तथा हे धीरधुरन्धर ! त्वया प्राणसन्देहेऽपि मत्पितरावददानेन सत्यं सुभटत्वं दर्शितम् , यदुक्तम् - शरणागता भटानां, सिंहानां केसरा उरः सत्याः ।। चूडामणयः फणिनां, गृह्यन्ते जीवतां नैव ॥२६२॥" इत्थं बहुधा प्रशस्य जिनदत्तो विरराम । .... अथ गतसन्देहशल्योऽरिमर्दनो दध्यौ - अहो ! अस्य गुणलुब्धता यदयं बहुगुणनिलयोऽपि ममैव सतोऽप्यसतोऽपि गुणान् गृह्णाति । अत्रापि राज्ञो वैराग्यवृद्धिर्जाता । तदा कोऽप्याह – पित्रोनिविडभक्तिविषये संसारे जिनदत्त एव वर्ण्यताम् । परः प्राह - किमसौ वर्ण्यते ?, किन्त्वरिमर्दन एव प्रजावात्सल्ये वर्ण्यताम् । कश्चिदाह – नेषोऽपि वर्ण्यः, किन्तु जिनदत्तपितरावेव चिरागतसुपुत्रसङ्गमात् पुण्यवन्तौ भणित्वा वय॒ताम् । केऽपि वदन्ति - वयमेव धन्याः यदीदृशो मेलापको दृष्टः स्वदृष्टयेति । [जिनदत्तकृतङ्तकाररक्षादिवर्णनम् ] - अथ बहुपरिचितधर्ममित्रादिदर्शनोत्कण्ठया सर्वतो जिनदत्तेन सभां निभालयता ते द्यतकारा दृष्टा उपलक्षिताः, वण्ठैराकारिता जल्पिताश्च – भो भो सत्पुरुषाः ! मामुपलक्षयथ ! ततो बहुमानहृष्टास्तेऽप्यूचुः -- देव ! त्वां को नोपलक्षयति ?, त्वं राजराजेश्वरः पञ्चमलोकपालः । राजा प्राह – एवं सर्वः कोऽपि मां जानाति, पुनर्युष्माभिर्विशेषतः काऽपि व्यक्तिआयते ? ततस्ते चकिताः स्वयकृतराजापमानं स्मरन्तो गतरङ्गाः कम्पमानाङ्गा मौनव्रतमिवाऽऽलम्ब्य स्थिताः । ततो राज्ञा ते दीना दृष्ट्वाचिरे - भो भो भद्राः ! मा भैष्ट, भवतां न्यायनिष्ठोऽहं किमपि न कथयामि, पुनरेको वार्ता यथातथा वदत - स कञ्चुकः क्वास्ते यो मया द्यूते हारितः ? ततस्तैः किञ्चिन्निर्भयैरुक्तम् – हे देव ! स कञ्चुकस्तत्रैव हट्टेऽस्ति यत्र तदाऽस्माभिरड्डाणको मुक्तः । ततो राज्ञा तावन्मानं द्रव्यं प्रेष्य तदापणादानाय्य स कञ्चकः प्रियायै विमलमत्यै दत्तः ।

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132