Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 91
________________ ४ जिनदत्तकथानकम् - अप्यनुजम्मुः । ततो जिनदत्तोऽपि समागच्छन्तं भूपतिं पूर्व' श्रुत्वा पश्चात् सन्निहितं दृष्ट्वा स्वयमपि सम्मुखो गतः । हषोत्कर्षेण द्वावपि मिलितो, परस्परं चरणाम्भोजौ यावद् विनयनम्रौ च तौ द्वावपि भूपौ दृष्ट्वा केचिज्जना एवं वदन्ति, यथा - नमन्ति फलिता वृक्षा, नमन्ति विबुधा जनाः । शुष्ककाष्ठानि मूर्खाश्च, भज्यन्ते न नमन्ति च ॥२५१॥ केनाजितानि नयनानि मृगाङ्गनानां ?, को वा करोति रुचिरागरुहान् मयूरान् ? । कश्चोत्पलेषु दलसन्निचयं करोति ?, को वा करोति विनयं कुलजेषु पुंसु ? ॥२५२॥ ___तदा केनापि कर्मकरेण सिंहासनं समानीतम् , ततो द्वावपि नृपौ तत्रैवैकासनमासीनौ । ततोऽरिमर्दनो जिनदत्तराजसमीपे प्राक्तनं विदेशगमनादिराज्यप्राप्त्यन्तं सर्व' स्वरूपं पृष्ट्वा सम्यक् श्रुत्वा च वदति – “अहो ! जिनदत्तराज ! तव भाग्यवतो विदेशेऽपि गतस्य राज्यादिप्राप्तिर्जाता, श्रेष्ठिनः पुनरिह दौस्थ्यं समजनि, तदिदं सत्यम् - 'हंसा जिहिं गय तिहिं गया महिमंडणा हवंति । छेह उ ताहं सरोवरहं जे हंसे मुच्चंति ॥२५३॥ किं बहुना ?, हे धन्यमूर्द्धन्य ! तव भाग्य-सौभाग्यप्रमुखा गुणाः सहस्रजिहवेनाऽपि वक्तुं न शक्यन्ते"। इत्थं निजगुणसहस्रवर्णनां निशम्योत्तमत्वात् क्षणं नीचैविलोक्य जिनदत्तो जरपति – “हे परगुणग्रहणतत्पर ! मम मध्ये गुणवत्त्वं क्वास्ति ? यदर्थे मया सर्वधर्मकर्म मुक्तं तद् राज्यादि सर्वमिहैव स्थास्यति, सार्थे किमपि नाऽऽयास्यति । तदान्तरणवैराग्यरजसतो नरपतिरात्मनिन्दा काव्यानि पठति, यथा --- उदपद्यन्त हृद्येव, हृद्येव च विलिलियरे । अहो ! मे मन्दभाग्यस्य रोरस्येव मनोरथाः ॥२५४॥ अस्माभिः किं न जने ? किमिह न बुभुजे ? पस्पृशे नैव किं वा ?, संसारे बम्भ्रमद्भिः किमिह न ददृशे ? शुश्रूवे नैव किं वा ? । कि नोचे? किं न चक्रे ? किमु न परिदधे? किं न चेषे न चापे ?, हा हा ! तादृग् न लेभे किमपि हि सुकृतं प्राप्यते येन मोक्षः ॥२५५॥ " 1. हंसा यत्र गताः तत्र गता महीमण्डना भवन्ति, हानिः तेषां सरोवराणां यानि हंसः मुच्यन्ते ।।

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132