Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 89
________________ जिनदत्तकथानकम् यदेतावन्ति मे तावद् दिनानि विफलान्यगुः । दूरेण गुरुपादानां तदद्य यदि कर्मणा ॥२३९॥ दत्तेऽन्तरे मया तातो दृष्टस्तत् तेन किं पुनः । वर्षारविरिवाऽभ्रेण ममादृष्टीकरिष्यति ? ॥२४॥ पुनर्नैव समादेश्यमश्रोतव्यमिदं वचः । कस्यापि दिवसो मा गात् सतः पूज्यानपश्यतः ॥२४१॥ तात ! किं तेन राज्येन ? जीवितेन दिनोदये । प्रसन्न नेक्ष्यते यत्र पितुः पादाम्बुजद्वयम् ॥२४२॥ पितुः पुरो निषण्णस्य या शोभा जायते भुवि । उच्चैः सिंहासनस्थस्य, तच्छतांशेऽपि सा कुतः ? ॥२४३।। यः कोऽपि परमास्वादो गुरुभक्त्युत्थिते भवेत् ।। दिव्यपाकेऽपि मिष्टान्नरसवत्या न तं लभे ॥२४४॥ या प्रीतिर्लभमानस्य गुरोरादेशमुज्ज्वलम् । भुवनत्रयलाभेऽपि न सा भवति निश्चितम् ॥२४५।। ताताऽऽदेशय यत् कृत्यं सेवाहेवाकिनो मम । चिरान्नेत्रपथायातः सम्पूरय मनोरथान् ॥२४६॥ इति पुत्रवचोनीरसिक्तमोह तरुः क्षणम् । श्रेष्ठी सश्रष्ठिनीकोऽप्यमानयत् तद्वचस्तदा ॥२४७॥ [ज्ञातवृत्तान्तस्यारिमर्दननृपस्य जिनदत्तेन सह मिलनं परस्परं वार्तालयच ] अत्रान्तरे वर्द्धापका अरिमर्दनभूपतिं प्रति चलिताः सन्ति, तदा स राजा मनसीति शोचन्नस्ति, यथा – हहा ! सपत्नीकः श्रेष्ठी स्वयं निर्गत्य वैरिकटके कथं प्रयातः !, महदपयशोऽस्माकं कुलेऽद्य नवीनमुत्पन्नम् , लाच्छनरूपा अवश्यमनेन कृष्णकम्बली मम शिरसि समारूढा, न ज्ञायते तत्र कटके किं जायते ?, अद्य तत्रगतस्य श्रेष्ठिनोऽष्टौ दिवसाः सञ्जाताः, इतः कोऽपि तत्र न याति, ततः कोऽपि न प्रत्यायाति, मिथो वैरित्वात् किञ्चिदपि श्रेष्ठासमाचारो न ज्ञायते, किं करोमि ?, कस्येदं दुःखं कथयामि ?, मृतस्योपरि यान्तु शकटानि, परं परमेश्वर ! त्वं कस्यापि जीवतः पुंसः स्वकीयमनुष्यान्तं मा स्म दर्शय, हा पापिष्ठ !

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132