Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
जिनदत्त-जननीजनकानां परस्परं वृत्तान्तकथनम् तथाऽहो! अद्यास्य श्रेष्ठिनो वंशो गर्जतीव, कुलं कलां कलयतीव, पुण्यश्रीनृत्यतीव, पूर्वजाः सर्वेऽपि जीवन्तीव अमुना सुपुत्रेण"। तथा चैके स्त्रीजना स्वजात्यभिमानात् श्रेष्ठिनी वर्णयन्ति, यथा - " अहो! अस्याः स्त्रियाः कुक्षिर्धन्या यया निर्मलमीदृशं पुत्ररत्नं जनितम् , यदुक्तम् -
येन केनचन धर्मकर्मणा, भूतलेऽत्र सुलभा विभूतयः ।
दुर्लभानि सुकृतानि तानि यैः प्राप्यते पुरुषरत्नमीदृशम् ॥२३६॥ तथा जगत्येषैव स्त्री धन्या मान्या, न चान्या, यदुक्तम् -
धन्यैव सा जगति सज्जननी प्रकृष्टा दृष्टा यया सविनयं तनयस्य भक्तिः ।
श्लाघ्यः स सूनुरपि मातृपदे प्रणम्य यः सर्वतीर्थफलमेकपदे प्रपेदे ॥२३७॥ . अस्या अपि तीर्थस्येव सेवा स्वपुत्रेण क्रियते, अन्या मातरः पुत्रस्य दुर्वचनाक्रोशं सहमाना दृश्यन्ते, ततः स्वजातावुत्कृष्टा श्रेष्ठिनी वर्ण्यते " ।
अथापादमस्तकं नर-नारीयोग्यानि यान्याभरणानि स्युः तानि सर्वाण्यपि जनान् प्रेष्य कोशाधिकारिपार्थात् समानाय्य तैरलकारै राज्ञा माता-पितरावलङ्कृतौ, दुकूलानि परिधापितौ च । ततो नृप उवाच - " हे पूज्याः ! राज्यमिदमङ्गीक्रियतां यदिदं युष्माकं ढौकनीये करोमि, यत् पुत्रार्जिता लक्ष्मीः पित्रोर्युज्यते, विपरीतमिदं तु न घटते, यद् वृद्धत्वे धनमुपायं पितरौ पुत्र एव पालयति नान्यः, अत एवोक्तम् -
बालस्स मायमरणं, भज्जामरणं च जुव्वणत्थस्स ।
वुड्ढस्स पुत्तमरणं, तिन्नि वि गुरुयाई दुक्खाइं ॥२३८॥ सुपुत्राः सर्वमुपाजितं तातस्यैव करेऽर्पयन्ति, अतो युक्तमिदम्, राज्यं तातपादा गृहन्तु"। ततः पितरावूचतुः - वत्स ! आवां वृद्धौ जातो, वृद्धत्वे धर्म एवोचितः धर्मश्च सर्वसनपरित्यागादेवोत्कृष्टः, ततो वयं संयमं ग्रहीष्यामः, नास्माकं राज्यमुचितम् , यतो 'गौरी मरिष्यति किं वा दुग्धं करिष्यति ? ' ततोऽस्माकं सम्प्रति संयमावसरोऽस्ति, हे वत्स ! त्वं विधिसृष्टानुसारेण निजाः प्रजाः पालय ।
ततः श्रीजिनदत्तराजोऽपि पित्रोविरहसूचकं वचः श्रुत्वा सदैन्यं जगाद - " हे तात ! मया गतभवे किं दुष्कृतम् कृतम् , __ 1. बालस्य मातृमरणम् , भार्यामरणं च यौवनस्थस्य, वृद्धस्य पुत्रमरणम् , त्रीक्यपि गुरुकाणि दुःखानि ॥

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132