Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 99
________________ जिनदत्तकथानकम् पराशाभङ्गपराङ्मुखा भवन्ति, असौ नृपस्तु निष्कामः प्रव्रजितुकामोऽस्ति, स च प्रवज्या मनोरथो यदि तव सान्निध्येन सिध्यति, तदा तवापि पुण्यं भवति, यदुक्तम् ७२ कर्तुः स्वयं कारयितुः परेण, शुद्धेन चित्तेन तथाऽनुमन्तुः । साहाय्यकर्तुश्च शुभाशुभेषु, तुल्यं फलं तत्त्वविदो वदन्ति ॥ २८२ ॥ तथा तत्त्वज्ञ ! तव पुरापि राज्यं प्रौढमस्ति तन्मध्ये स्तोकमिदमपि मिलतु, यथा ' मणशतं तथा शुण्ठीग्रन्थिकोऽपि ' इति न्यायोऽप्यस्ति, हे वत्स ! यथा त्वं निजमहाराज्यस्य चिन्तां करोषि तथाऽस्यापि चिन्ता कार्या, स्तोककृते त्वं मा भज्यस्व; ' यदि शकटे भूते भारो न भावी तत् किं पिञ्जन्या भविष्यति ?' इति विमृश्य सर्वमिदं गृहाण, उच्चनीचघनं मा पश्य, राजादेशोऽन्यथा न भवति" । ततो जिनदत्तोऽपि स्वस्य भोगफलं कर्म मत्वा भवितव्यतामिव पितुर्वाचं च दुरतिक्रमां ज्ञात्वा संयम साहाय्यस्य सारं सुकृतं चित्ते चिन्तयित्वा निजजिह्वोक्तां शपथवाणीं प्रमाणीकर्तुं राज्यादिस्वीकारं मेने । - ततः सुपात्रप्रदत्तराज्यत्वात् प्रमुदितः श्रीअरिमर्दनस्तदैव प्रेषितप्रधानपुरुषपार्श्वादाकार्य ज्योतिषिकानवादीत् - भो विशारदाः ! भवतां शारदा प्रसन्नाऽस्ति तदुच्यतां किमप्यासन्नं लग्नं विद्यते। ततस्ते सर्वे सम्भूय चैकमतीभूय प्रोचुः - हे राजन् ! अद्यतने दिने यादृशं सुन्दरं लग्नद्वयं विद्यते तादशं वर्षमध्येऽपि नास्ति, तच्च सर्वग्रहबलोपेतं सर्वदोषविवजितं अहो ! दिष्ट्याद्य विवाहलग्नं पट्टाभिषेकलग्नं चेति द्वयं ज्ञेयम् । तदा राज्ञा चिन्तितम् - सद्यः सर्वभाग्यैर्जागरितम्, यदेकतोऽमुना पुरुषोत्तमेन वाक्यं मानितम्, अन्यतोऽद्यैव वाञ्छितं लग्नद्वयं स्वयं समायातम् । — ततः श्रीअरिमर्दनस्तान् ज्योतिर्विदः पारितोषिकदानपूर्व विसृज्य सर्वसैन्यभाजं श्रीजिनदत्तराजं नगरमध्ये स्वसौधे समानीय निजैश्वर्यानुमानेन महोत्सवविधानपूर्व स्वपुत्र्या समं पर्यणाययत् । ततश्चतुरिकाया एवाऽऽनीय सदसि सिंहासने निवेशितस्य तस्य भृशमनिच्छतोऽपि द्वितीय लग्ने पट्टाभिषेकोऽकारि । तदा सर्वे राजप्रमुखैः पञ्चाङ्गस्पृष्टभूपीठं स नमोऽकारि, . तदा तदाज्ञा सेवकैर्विश्वे व्यस्तारि, वैरिभिर्दूरं व्यचारि, मुक्ताफलभृतस्थालैः सोऽवर्धि तद्भाग्येन समं केनापि नास्पर्द्धि, तदा निःस्वानप्रभृतिवादित्राणि गम्भीरस्वरेण वादितानि, गिरिकन्दराणि तन्नादेन प्रतिनादितानि । एवमुत्सवं विदधतोऽरिमर्दनस्य दिवसो गतः ततः किञ्चिद्योगनिद्रया राज्ञा रात्रिनता, ब्राह्मे मुहूर्त्ते चोत्थाय तेन चिन्तितम्, यथा ―

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132