________________
४
जिनदत्तकथानकम् -
अप्यनुजम्मुः । ततो जिनदत्तोऽपि समागच्छन्तं भूपतिं पूर्व' श्रुत्वा पश्चात् सन्निहितं दृष्ट्वा स्वयमपि सम्मुखो गतः । हषोत्कर्षेण द्वावपि मिलितो, परस्परं चरणाम्भोजौ यावद् विनयनम्रौ च तौ द्वावपि भूपौ दृष्ट्वा केचिज्जना एवं वदन्ति, यथा -
नमन्ति फलिता वृक्षा, नमन्ति विबुधा जनाः । शुष्ककाष्ठानि मूर्खाश्च, भज्यन्ते न नमन्ति च ॥२५१॥ केनाजितानि नयनानि मृगाङ्गनानां ?, को वा करोति रुचिरागरुहान् मयूरान् ? । कश्चोत्पलेषु दलसन्निचयं करोति ?,
को वा करोति विनयं कुलजेषु पुंसु ? ॥२५२॥ ___तदा केनापि कर्मकरेण सिंहासनं समानीतम् , ततो द्वावपि नृपौ तत्रैवैकासनमासीनौ । ततोऽरिमर्दनो जिनदत्तराजसमीपे प्राक्तनं विदेशगमनादिराज्यप्राप्त्यन्तं सर्व' स्वरूपं पृष्ट्वा सम्यक् श्रुत्वा च वदति – “अहो ! जिनदत्तराज ! तव भाग्यवतो विदेशेऽपि गतस्य राज्यादिप्राप्तिर्जाता, श्रेष्ठिनः पुनरिह दौस्थ्यं समजनि, तदिदं सत्यम् -
'हंसा जिहिं गय तिहिं गया महिमंडणा हवंति ।
छेह उ ताहं सरोवरहं जे हंसे मुच्चंति ॥२५३॥ किं बहुना ?, हे धन्यमूर्द्धन्य ! तव भाग्य-सौभाग्यप्रमुखा गुणाः सहस्रजिहवेनाऽपि वक्तुं न शक्यन्ते"। इत्थं निजगुणसहस्रवर्णनां निशम्योत्तमत्वात् क्षणं नीचैविलोक्य जिनदत्तो जरपति – “हे परगुणग्रहणतत्पर ! मम मध्ये गुणवत्त्वं क्वास्ति ? यदर्थे मया सर्वधर्मकर्म मुक्तं तद् राज्यादि सर्वमिहैव स्थास्यति, सार्थे किमपि नाऽऽयास्यति । तदान्तरणवैराग्यरजसतो नरपतिरात्मनिन्दा काव्यानि पठति, यथा ---
उदपद्यन्त हृद्येव, हृद्येव च विलिलियरे ।
अहो ! मे मन्दभाग्यस्य रोरस्येव मनोरथाः ॥२५४॥ अस्माभिः किं न जने ? किमिह न बुभुजे ? पस्पृशे नैव किं वा ?, संसारे बम्भ्रमद्भिः किमिह न ददृशे ? शुश्रूवे नैव किं वा ? । कि नोचे? किं न चक्रे ? किमु न परिदधे? किं न चेषे न चापे ?,
हा हा ! तादृग् न लेभे किमपि हि सुकृतं प्राप्यते येन मोक्षः ॥२५५॥ " 1. हंसा यत्र गताः तत्र गता महीमण्डना भवन्ति, हानिः तेषां सरोवराणां यानि हंसः मुच्यन्ते ।।