SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ जिनदत्त-तज्जननीजनकमिलनस्य विस्तृतवर्णनम् न दशति मन्त्रज्ञमहिहीनकलं त्यजति राहुरपि चन्द्रम् । सरसं न दहति दहनो, नृपस्तु कुपितोऽखिलं हन्ति ॥२०८॥" ततः कम्पमानाङ्गो दीनास्यः शून्यचित्तस्तत्कालगतसर्ववित्त इव गतजीविताशः सपत्नीकः श्रेष्ठी दूतैर्जलमयीभूतकर-चरणोऽग्रे गृह्यमानोऽपि पश्चाद्गच्छन्निव शनैःशनैर्गतिर्बलादाकृष्य पार्थिवाग्रे दूरस्थित एवोर्वीकृतः । ततः श्रेष्ठी चक्राधिपसमां तत्सभां निरीक्ष्य चिन्तयति - " किमियमामरी सभा ?, योऽयं राजा दृश्यते स किं देवः ?, किं वा धर्मराजोऽयम् ? यदसौ राजा तुष्टस्तदा राज्यं दत्ते, यदि रुष्टस्तदा सर्वस्वं जीवितं च नियमेन गृह्णाति, यदेते राणका दृश्यन्ते ते दिक्पाला लोकपाला वा घटन्ते, यावदमी पश्चास्थितस्य ममान्तरे वर्तन्ते तावन्मयाऽपि किञ्चिज्जीविताशा कार्या, यतो ये मध्यस्थास्ते पालयन्त्येव, अथवा किमनया चिन्तया !, यद् भाव्यं तद् भविष्यति" । इति चिन्तयन्नयं स्थितोऽस्ति । __ [जिनदत्त-तज्जननी-जनकमेलापकस्य विस्तरतो वर्णनम् ] तदा पुरन्दरसभातुल्यां निजसभामध्यासीनश्छत्र-चामरादिविभूतिमान् भूपतिर्दुःस्थावस्थापतितौ जराजीी जीर्णशीर्णवस्त्रौ गलिताङ्गौ गलन्नयनौ नि थाविव गतशरणौ निजमाता-पितरौ दृष्ट्वा खेदं गतश्चिन्तयति – “ही ! धिग् धिग् मम राज्यम् , मामपि धिगस्तु, किं तेन पुत्रेण ? यत्पितरावेवं रुलतः । यतः - किं तेन जातु जातेन, पृथिवीभारकारिणा ! । आस्तामन्यस्य पित्रोरप्याा पूरयते न यः ॥२०९॥ स पुत्रो यः पितुर्मातुभूरिभक्तिसुधारसैः । निर्वापयति सन्तापं, शेषस्तु कृमिकीटकः ॥२१०॥ वरं वृक्षोऽपि सिक्तोऽसौ, यस्य विश्रम्यते तले । सचेतनोऽपि नो पुत्रो यः पित्रोः क्लेशकारकः ॥२११॥" तयोर्दुर्दशां दृष्ट्वाऽन्तर्महाशोकातुरो भूत्वा पुनर्बहिरात्मानं सन्धीर्य पृथ्वीपतिरप्रतः पितरौ पुनराकार्य पृच्छति - भो श्रेष्ठिन् ! यूयं महान्तो व्यवहारिणः पूर्व श्रुताः, सम्प्रति भवतां महावस्था दृश्यते, तत् किं राज्ञा यूयं दण्डिताः ?, तस्करैर्मुषिता वा ?, वह्निना दग्धसर्वस्वा वा ?, सम्प्रति यूयं किमीदृशाः ? कारणं वदत। अथ श्रेष्ठी वेपमानः सगद्गदमिदं वदति – हे देव ! मम पार्थिवादिभिः किञ्चिन्न कृतम् , किन्तु प्रतिकूलदेवेन दण्डितोऽहम् । राज्ञोक्तम् – देवेन केन द्वारेण प्रातिकूल्यं
SR No.022637
Book TitleJindutta Kathanakam
Original Sutra AuthorN/A
AuthorOmkarshreeji
PublisherJain Atmanand Sabha
Publication Year1978
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy