________________
जिनदत्तकथानकम् कृतम् ? श्रेष्ठ्याह – “श्रृणु स्वामिन् ! मम पुत्र एकः सविवेकः सद्भाग्यातिरेकः सत्कृत्यच्छेकोऽभूत् , स दुर्दैवेन हृतः, यस्मात् स पुत्रः केनाऽपि कारणेन निर्गत्य विदेशं गतः, सर्वत्र विलोकितोऽपि न लब्धः, ततो न जाने सम्प्रति जीवति मृतोऽस्ति वा, तस्मिन् गते सर्वा लक्ष्मीर्गता, दारिद्रयं समुपस्थितम् , तस्यैकस्य भाग्येन सर्व सुखभागभूत् , परं रकस्य गृहे रत्नं न तिष्ठति । ततो देव ! तदुःखेनाहमतीवदुःखी जातोऽस्मि"। ततो राज्ञोक्तम् - भो सत्तम ! यद्येवमस्ति पुत्रः क्वापि गतस्तर्हि मम सैन्यं विदेशायातं महत्तरं च विद्यते ततो भ्रान्त्वा त्वं सर्व सैन्यं विलोकय, कदाचिदिहैव काकतालीय-न्यायेन पुत्रः स्यात् । ततो हृप्टेन श्रेष्ठिना — स्वाम्यादेशः प्रमाणम् ' इत्युक्ते राज्ञा साथै निजजनाः समर्पिताः । ततो बहिनिर्गतस्य श्रेष्ठिनो जीविताशा किञ्चित् सञ्जाता । यदुक्तम् -
क्षणेन लभ्यते यामो, यामेन लभ्यते दिनम् ।
दिनेन लभ्यते कालः, कालः कालो भविष्यति ।।२१२।। तथैवमस्ति, “घांचटलितं योजनशतं याति"। इति तेन स्वस्थीभूय सप्तभिर्दिनैर्महाप्रमाणं सर्व कटकं विलोक्य पुनर्भूपतेरने समेत्य सपत्नीकः श्रेष्ठी स्थितः । ततः 'भो श्रेष्ठिन् ! अग्रतः समागच्छ, अग्रतः समागच्छ' इति राज्ञो बहुभिरादेशैः पुरः पुरो द्वित्राणि द्वित्राणि पदानि व्रजन्नात्मभयेन पश्चाद्गन्तुकामोऽपि श्रेष्ठी भूपतेरदूरासन्नां भूमिमाययौ । बहवः सभास्था राजराणका अग्रगमनेन तेनोल्लञ्चिताः । तथापि पुनः पुरस्समागमार्थ राजादेशे सति श्रेष्ठिमनः शकते - " यद्राज्ञो बहुतरं बहुमानं तदपमानतुल्यम् । यदुक्तम् -
हसन्नपि नृपो हन्ति, जिघ्रन्नपि भुजङ्गमः ।
दुर्बलस्य गृहं हस्ती, घर्षयन्नपि पातयेत् ॥२१६॥" तथापि किञ्चिदने गतस्य श्रेष्ठिनः पुरो राजा वक्ति - भो श्रेष्ठिन् ! भवता कटकमध्ये बम्भ्रमता सता सुतः क्वापि प्रापि, न वा ? इति पृष्टे श्रेष्ठिना 'न' इति प्रोक्ते पुनर्नरपतिर्गदति – भो सुन्दरमते ! निजं पुत्रं दृष्टं लक्षयसि, न वा ? इति साभिप्रायं भाषमाणे नृपे किञ्चिदक्षोभतया श्रेष्ठी स्पष्टमाचप्ट – “ महाराज ! त्वया किमुच्यते ?, संसारे कोऽपि मूढोऽपि स्वकीयमङ्गजं नोपलक्षयति ?, परं वृद्धत्वान्मां किं दृष्टिबलहीनं सम्भावयसि ? न तथा त्वया सम्भाव्यम् , यस्मादहं पुत्रवदननिरीक्षणे सहस्राक्षोऽस्मि, तं दृष्टमात्र लक्षयाम्येव, परं तस्य कदापि कापि पदप्रतिष्ठा स्याद् अथवा रूपपरावर्तो वेषपरावत्तौ वा जातः स्यात् तदा स तनयो न लक्ष्यते ।"