________________
जिनदत्त-तज्जननीजनकमिलनस्य विस्तृतवर्णनम् अत्रान्तरे श्रेष्ठिन्या हृदयमुल्लसितम् , कपोलद्वयं विकसितम् , नयनयुगलं विमलं जातम् , स्तनयोः प्रस्रवो जातः । तथा सा श्रेष्ठिनी महानन्दमन्ना विकल्पानेवं विधत्ते यथा - "किमहं सुधाकुण्डे स्नामि ?, सुधां वा पिबामि ?, कल्याणकोटिं रत्नकोटि वा प्राप्ताऽस्मि ? स्वर्ग' वा गताऽस्मि ?, राज्य वा भुजानाऽस्मि ?, नात्मानं जानामि, परमेवं जाने ' अद्य अहो ! किमपि मम महाभाग्यं जागति, अद्य मम कोऽपि महोत्सवः पर्वदिवसो वा वर्तते' सम्प्रति यादृशं मम सुखं वर्त्तते तादृशं नात्रभवे मयाऽनुभूतम् , अतोऽयं राजाऽस्य परस्य वा भवस्य बन्धुरो बन्धुर्वा सुन्दरः सोदरो वा सदाशानिवासदिग्गजो ममाङ्गजो वा भवत्येव, किमन्यथा नयनादिविकाशः स्यात् ! । यदुक्तम् -
'आयह लोयह लोयणइं जाईसरई, न भंति ।
अप्पिय दिढे मउलीइं, पिय दिठे विहसति ॥२१४॥” . एवं सुचिरं विचिन्त्य श्रेष्ठिन्या कराङ्गलीसकेतं कृत्वा श्रेष्ठी बभणे – हे कान्त ! एष किल स्वकीयः पुत्रोऽस्ति । इति कथिते मन्दं मन्दं श्रेष्ठ्याचप्ट - " हा वैरिणि ! न्यम्मुखा तिष्ठ, मा ब्रूहि, रे अचेतने ! किं भाषमाणाऽसि ? त्वं मानुषमसि किं वा पशुरसि ? वचनं विचार्य वक्तव्यम् । यतः -
'काज परीछी जे करई, बोलई वयण विमासि ।
तेह नर ऋद्धि घरअंगणई, संकट नावई पासि ॥२१५॥ तथा क्वचिज्जल्पितादजल्पितं वरम् । यदुक्तम् -
जिहादोषेण बध्यन्ते, शुक-तित्तिरि-शारिकाः ।
बकास्ते न हि बध्यन्ते, मौनं सर्वार्थसाधकम् ॥२१६॥ तथा -
जिहवाग्रे वर्त्तते लक्ष्मीजिह्वाग्रे च सरस्वती ।
जिह्वाग्रे बन्धनं मृत्युजिह्वाग्रे परमं पदम् ॥२१७॥ तथा -
असम्भाव्यं न वक्तव्यं, दशहस्ता हरीतकी । 1. आत्मनः लोकानां लोचनानि जातिस्मरणानि, [अत्र विषये ] न भ्रान्तिः, अप्रिये दृष्टे मुकुलयन्ति, प्रिये दृष्टे विकसन्ति ॥ 2. कार्य परीक्ष्य ये कुर्वन्ति, वदन्ति वचनं विमृश्य तेषां नराणां ऋद्धिः गृहाङ्गने, सङ्कटं नायाति पावे ॥