________________
५२
जिनदत्तकथानक
स श्रेष्ठी बहुसुवर्णरत्नकोटिपतिर्भावी, असौ तु यूकाकोटीश्वर एव, परमेकेन लक्षणेन षट्खण्डाधिपचक्रवर्तितोऽप्यधिकोऽयं दृश्यते - यदयं जीर्णवस्त्रमाश्रित्य शतखण्डाधिपतिरस्ति; अहो ! विचक्षणेनापि राज्ञा किमर्थमसौ प्रार्थितः, भूपतिः किमस्य पार्श्वे पश्यन्नस्ति ?, यदि वालुका - मध्ये तैलम्, यदि जलमध्ये धृतम्, यदि शुष्ककाष्ठमध्ये सरसत्वं स्यात्, तदाऽस्य पार्श्वे द्रव्यमस्ति; यस्माद्धनवान् पुमान् पृथगेव विलोक्यते । यदुक्तम् -
—
1
अगुणमवि गुणड्ढं रूवहीणं पि रम्मं,
जडमवि मइमंतं मंदसतं पि सूरं ।
अकुलमव कुलीणं तं पर्यपति लोया, वरकमलदलच्छी जं पलोएइ लच्छी ॥ २०४ ॥
तथापि स्वदोषापनोदाय राजानं विज्ञपयामि । " इति विचिन्त्य राजान्तिके गत्वा द्वाःस्थः श्रेष्ठया - गममुवाच । ततो राजा किञ्चिद् विमृश्य बभाषे भो द्वाःस्थ ! त्वं गत्वा पृच्छेति 'अहो श्रेष्ठिन् ! त्वं सपत्नीकः स्वयमागतः : राज्ञा वा प्रहितः ? ' । इति श्रुत्वा द्वाःस्थोऽपि द्वारे गत्वा श्रेष्ठिनं सम्यक् पृष्ट्वा तत्स्वरूपं च ज्ञात्वा पुनः पश्चादागत्याऽभिदघे - • राजन् ! श्रेष्ठी स्वयमेवागतः, न तु राज्ञा प्रहितः । इति श्रुत्वा हृष्टो राजाऽचिन्तयत् - ." अहो सज्जना ईदृशा भवन्ति । यदुक्तम् -
-
-
तथा -
--
अजातशत्रुर्जगदेकमित्रं, कुटुम्बबुद्धिर्नगरे समये । स्वभावतोऽत्युज्ज्वलचित्तवृत्तिः परं च धर्मे विहितप्रवृत्तिः ॥२०५॥ सहसिद्धमिदं महतां धनेष्वनास्था गुणेषु बहुमानः । परदुःखे कातरता, महच्च धैर्यं स्वदुःखेषु ॥ २०६॥
-
भारा दिग्भूधरसिन्धुरास्ते, घाता क्व वाताशन एष शेषः । विश्वम्भरां भूरिभरां बिभर्ति, परोपकारी पुनरेक एव ॥ २०७ ॥ " इति विचिन्त्य राज्ञा दूता भाषिताः - यूयं गत्वा श्रेष्ठिनमानयत । इति राजादेशेनाऽऽगत्य लैरुक्तम् – रे श्रेष्ठिन् ! भवन्तं भूपतिराकारयतीति । रेकारशब्दं श्रुत्वा श्रेष्ठी चित्ते चकम्पे चिन्तितवांश्च " अरे ! किमत्र भावि ?, राजा तु रौद्र एव स्यात्, न ज्ञायते किमपि करिष्यति, रुष्टो हि राजा किमपि न त्यजति यदुक्तम्
-
1. अगुणमपि गुणाढ्यम्, रूपहीनमपि रम्यम्, जडमपि मतिमन्तम्, मन्दसत्त्वमपि शूरम्, अकुलमपि कुलीनम् तं प्रजल्पन्ति लोकाः वरकमलदलाक्षी यं प्रलोकयति लक्ष्मीः ॥