SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ जीवदेवश्रेष्ठिनो जिनदत्तनृपस्याग्रे आत्मसमर्पणम् त्वं स्वयमेव निःसृत्य गच्छ, अन्यथा बहुजीवक्षये तव किं जीवितं शाश्वतं भावि ?, यदुक्तम् - 'एकस्स कए नियजीवियस्स बहुयाओ जीवकोडीओ । दुक्खे ठवंति जे के, तेसिं किं सासयं जीयं ? ॥१९८॥" इत्यादि श्रुत्वा श्रेष्ठिनाऽचिन्ति – “ यदि मम शरीरेण बहूनां जीवितरक्षा स्यात् तदा किं न लब्धम् ? यदुक्तम् - अस्मिन्नसारे संसारे विनाशेऽवश्यभाविनि । पुण्यभाजां भवत्येव परार्थे जीवितव्ययः । तथा - परोपकाराय कृतघ्नमेतच्चलं शरीरं यदि याति यातु ।' काचे न चेद् वज्रमणि लभेत, मूखोऽपि किं नेति पुनर्ब्रवीति ? ॥२०॥ तथा लोकाक्रोशा अपि कर्णाभ्यां श्रोतुं न शक्यन्ते, मदर्थे यदि पुरभङ्गापयशो जने जातं तदहं जीवन्नपि मृतोऽस्मि । यदुक्तम् - जीवितव्यं यशः पुंसां, जीवितव्यं न जीवितम् । तदेव हि गतं यस्य, जीवन्नपि न जीवति ॥२०१॥” इति विचिन्त्य श्रेष्ठिन्या सहितः श्रेष्ठी सर्वजनान् क्षमयित्वा पाश्चात्यरात्रौ दुर्गमुलय बहिनिर्गतः । स श्रेष्ठी कटकमुखं गच्छन्नपि धीरत्वोचितमिति चिन्तयति, यथा - " माता यदि विषं दद्यात् , पिता विक्रयते सुतम् । राजा हरांत सर्वस्वं, का तत्र प्रतिवेदना ? ॥२०२॥ तावद् भयस्य भेतव्यं यावद् भयमनागतम् । आगते तु भयं दृष्ट्वा, प्रसोढव्यमशकितैः ॥२०३॥" ___ ततः कटकमध्ये यत्र गुरूदरे जिनदत्तराजोऽस्ति तस्य द्वारे गत्वा 'राज्ञो ममाऽऽगमं विज्ञपय' इति श्रेष्ठी दौवारिकमभिहितवान् । तदा द्वाःस्थो दध्यो – “किमस्य जिनदत्तराजस्य सर्व राजानो राणका निष्ठिताः यदनेन दुर्दशालयेन श्रेष्ठिना सहास्य राज्ञः कार्यमस्ति, किमस्य पार्थाद् राजा गृहीष्यति ? मयैवं ज्ञातमभूत् – यदर्थेन नरपतिर्दीयमानं दण्डमपि न जग्राह -- 1. एकस्य कृते निजजीवितस्य बह्वयः जीवकोटयः दुःखे स्थापयन्ति ये केचित् तेषां किं शाश्वतं जीवितव्यम् ॥
SR No.022637
Book TitleJindutta Kathanakam
Original Sutra AuthorN/A
AuthorOmkarshreeji
PublisherJain Atmanand Sabha
Publication Year1978
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy