________________
जिनदत्तकथानकम्
यदुक्तम् -
याता यान्ति महीभुजः क्षितिमिमां यास्यन्ति भुक्त्वाऽखिलां, नो याता न च याति यास्यति न वा केनापि सार्द्ध धरा । यत् किञ्चिद् भुवि तद् विनाशि सकलं कीर्तिः परं स्थायिनी,
मत्त्ववं वसुधाधिपैः सुकृतिनो रक्ष्याः क्षितौ कीर्तये ॥१९४॥" पुनः कोऽपि प्रधानः प्राह - हे असमसाहसनिधान ! त्वं विचारय, तव परलोकगमनात् पश्चादपि श्रेष्ठी वैरिणाऽनेन गृहीष्यते, तदुभयथाऽपि श्रेष्ठिनो मरणं समायतं तदाऽस्यार्थे त्वं वृथव कथं म्रियसे ? । ततो राजा प्राह – “भो हितबुद्धे मन्त्रिन् ! दृष्ट्या कथमेवं द्रष्टुं शक्यते ? लोकोक्तिरप्येवमस्ति यद् मृतस्योपरि यान्तु शकटानि परं जीवन्तो धीरपुरुषाः प्राणान्ते न्यायमार्गान्न चलन्ति । यदुक्तम् --
निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु, लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् । अद्यैव वा मरणमस्तु युगान्तरे वा,
न्याय्यात् पथः प्रविचलन्ति पदं न धीराः ॥१९५॥ भो मन्त्रिन् ! अतः सर्वथा श्रेष्ठिनं नार्पयामि, यद् भाव्यं तद् भवतु, सर्वोऽपि धर्मध्यानं करोतु, केनापि मम चिन्ता न कार्या । यतः -
काकाः कृष्णाः शुका नीला हंसाश्च धवलीकृताः ।
मयूराश्चित्रिता येन, स मे चिन्तां करिष्यति ॥१९६॥ तथा
'मा वहउ को वि चितं, चिंतयरो को वि अस्थि अन्नयरो ।
चितारहिएणं पत्थरेण देवत्तणं पत्तं ॥१९७॥" इत्याद्युक्त्वा सर्व प्रधानाद्य विबोध्य निवार्य च स्वयं कर्मप्रामाण्यं कृत्वा राजा धर्मैकशरणस्तस्थौ । एवं सप्त दिनानि सञ्जितानि । [निजनृप-नगरादिसंरक्षणार्थ सपत्नीकस्य जीवदेवश्रेष्ठिनो
जिनदत्तसमक्षमात्मसमर्पणम् ] ततः कैश्चिन्महातैः पुररोधमग्नलोकः श्रेष्ठी भणितः – “भो श्रेष्ठिन् ! तवैकस्य कृते सम्प्रति सर्व नगरं भज्यते, पश्चाद्देशभङ्गोऽपि सम्भाव्यते, राजा तु पुण्यात्मा त्वां नार्पयति,
1. मा वहतु कोऽपि चिन्ताम् , चिन्ताकरः कोऽपि अस्ति अन्यतरः। चिन्तारहितेन प्रस्तरेण देवत्वं प्राप्तम् ॥