________________
अरिमर्दननृपस्य प्रजापालनधर्मावलम्बनम् एतत् करोमीति कृतप्रतिज्ञो, यः स्वीकृतं नैव करोति सत्त्वः । यात्यस्य संस्पर्शजकश्मलानां, प्रक्षालनायेव रविः पयोधिम् ॥१८८॥
तथा
भस्मनाऽपि तृणेनापि काऽपि सञ्जायते क्रिया ।
प्रतिज्ञातार्थनिर्वाहच्युतेन न तु जन्तुना ॥१८९॥ तथा -
किमिह कपाल-कमण्डलु-वल्कल-सित-रक्तपट-जटापटलैः ।
व्रतमिदमुज्ज्वलमुन्नतमनसां प्रतिपन्ननिर्वहणम् ॥१९॥ अन्यच्च - __कृशानुसेवा फल-कन्दवर्तनं, जटाधरत्वं वनवासिनां व्रतम् ।
महीपतिनामिदमेव तु व्रतं यदात्मसत्यात् प्रलयेऽपि न च्युतिः ॥१९१॥ अथ कश्चिद् वृद्धो मन्त्री ब्रूते – “हे राजन् ! एवमेकान्तत्वविधानेन जडनाम लभ्यते, स्वामिन् ! सर्वत्र सुन्दरभाव एव शोभते, तथा क्वापि स्कन्धे बद्ध्वा नाऽऽकृष्यते, अतिमथिते कालकूटमुत्पद्यते । अत एवोक्तम् -
अतिरूपेण वै सीता, अतिदर्पण रावणः ।।
अतिदानाद् बलिर्बद्धो, अति सर्वत्र वर्जयेत् ॥१९२॥ हे देव ! यद्येवं स्वाग्रहं न मोक्ष्यसे तदा तव मरणं राज्यनाशश्च सम्भाव्यते, ततो हे दीर्घबुद्धे ! त्वं श्रेष्ठिनमर्पय" ।
अथ राजा प्राह – “ यदीत्थं मरणं स्यात् तदा किं विलोक्यते ?, मरणात् किं भयम् ?, परं महाजनपरिभवो दुःसहः, अस्माभिस्तु व्यापृतं जग्धं पीतं दत्तं विलसितम् , अथ यदा तदा यथा तथा मर्तव्यमेव । यदुक्तम् -
धीरेण कातरेणापि मर्तव्यं खलु देहिना ।
तन्नियेत तथा धीमान् न म्रियेत यथा पुनः ॥१९३॥ हे मन्त्रिन् ! राज्यतृष्णाऽपि साम्प्रतं नास्माकं विद्यते, चिरमपि राज्यं यतः कृतम्, ततोऽस्माकं कीर्तिरेव सम्प्रति सुस्थिरा विलोक्यते । ..J-7. .