________________
जिनदत्तकथानकम् " त्यजेदेकं कुलस्याथै, ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे, आत्मार्थे पृथिवीं त्यजेत् ॥१८३॥ इति नीतिशास्त्रप्रामाण्याद् देव ! श्रेष्ठी दीयते, यथा सर्व कुल-ग्राम-जनपदादि सुस्थं स्याद् "। इति श्रुते राजाऽवोचत् – “भो प्रधान ! नैतद् वचो मह्यं रोचते, यतः पृथिव्यास्त एवालक्कारभूता ये शरणागतं रक्षन्ति । यदुक्तम् -
विहलं' जो अवलंबइ, आवइपडियं च जो समुद्धरइ ।
सरणागयं च रक्खइ, तिसु तेसु अलंकिया पुहवी ॥१८४॥ तथा भो प्रधान ! ते प्रजापाला अपि नृपास्तुणतुल्या भवन्ति, ये निजाश्रितं न पालयन्ति,
यतः -
* अवलंबिया तिणा न हु तुटुंति समुद्धरेज्ज ता विहलं ।
विहलुद्धरणे जे न हु य तिणसमा ते उ किं भणिमो ॥१८५।। पुनर्धर्मशास्त्रोक्तो दृष्टान्तो श्रूयताम् - : यथा षोडशजिनेन्द्रेण दशमे मेघरथभवे पक्षिमात्रकपोतार्थे स्वजीवितं कल्पितं स दक्षमुख्योऽपि स्वात्मनाशेऽपि धर्ममार्ग न लुलोप । अत एवोक्तम् -
श्रीशान्तिनाथादपरो न दानी, दशार्णभद्रादपरो न मानी ।
श्रीस्थूलभद्रादपरो न योगी, श्रीशालिभद्रादपरो न भोगी ॥१८६॥ अतो वणिग्मात्रत्वादेकजीवमात्रत्वादप्ययं श्रेष्ठी मया नोपेक्षितु शक्यते ! भो सकर्ण ! पुनराकर्णय – राजचिह्नविचारेणापि सत्तमोऽयं पाल्यो भवति, यदुक्तम् -
सदवनमसदनुशासनमाश्रितभरणं च राजचिह्नानि ।
अभिषेकपट्टबन्धौ वालव्यजनं व्रणस्यापि ॥१८७॥ भो प्राज्ञ ! पुनः श्रयताम् 'हे वत्स ! त्वया निजाः प्रजाः प्रजा इव प्रत्यहं पालनीयाः । इति पितुर्वचनं पट्टाभिषेकावसरे श्रुत्वा 'सर्व' युष्मदुक्तं करिष्यामि' इति मया यत् प्रतिज्ञातमासीत् तस्य प्रतिपन्नस्य नाशे सति भोः प्रधान ! वद ममकिमप्यवतिष्ठते ?, यदुक्तम् -
1. व्याकुलं यः अवलम्बते, आपत्पतितं च यः समुद्धरति, शरणागतं च रक्षति, त्रिभिः तैः अलङ्कृता पृथिवी । अत्र तृतीयार्थे सप्तमी ज्ञेया ॥ 2. अवलम्बितानि तृणानि न खलु ट्यन्ते, समुद्धरेत् तस्माद व्याकुलम् । व्याकुलोद्धरणे ये न खलु च तृणसमाः ते तु, किं भणामः ॥