Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 81
________________ जिनदत्तकथानकम् कृतम् ? श्रेष्ठ्याह – “श्रृणु स्वामिन् ! मम पुत्र एकः सविवेकः सद्भाग्यातिरेकः सत्कृत्यच्छेकोऽभूत् , स दुर्दैवेन हृतः, यस्मात् स पुत्रः केनाऽपि कारणेन निर्गत्य विदेशं गतः, सर्वत्र विलोकितोऽपि न लब्धः, ततो न जाने सम्प्रति जीवति मृतोऽस्ति वा, तस्मिन् गते सर्वा लक्ष्मीर्गता, दारिद्रयं समुपस्थितम् , तस्यैकस्य भाग्येन सर्व सुखभागभूत् , परं रकस्य गृहे रत्नं न तिष्ठति । ततो देव ! तदुःखेनाहमतीवदुःखी जातोऽस्मि"। ततो राज्ञोक्तम् - भो सत्तम ! यद्येवमस्ति पुत्रः क्वापि गतस्तर्हि मम सैन्यं विदेशायातं महत्तरं च विद्यते ततो भ्रान्त्वा त्वं सर्व सैन्यं विलोकय, कदाचिदिहैव काकतालीय-न्यायेन पुत्रः स्यात् । ततो हृप्टेन श्रेष्ठिना — स्वाम्यादेशः प्रमाणम् ' इत्युक्ते राज्ञा साथै निजजनाः समर्पिताः । ततो बहिनिर्गतस्य श्रेष्ठिनो जीविताशा किञ्चित् सञ्जाता । यदुक्तम् - क्षणेन लभ्यते यामो, यामेन लभ्यते दिनम् । दिनेन लभ्यते कालः, कालः कालो भविष्यति ।।२१२।। तथैवमस्ति, “घांचटलितं योजनशतं याति"। इति तेन स्वस्थीभूय सप्तभिर्दिनैर्महाप्रमाणं सर्व कटकं विलोक्य पुनर्भूपतेरने समेत्य सपत्नीकः श्रेष्ठी स्थितः । ततः 'भो श्रेष्ठिन् ! अग्रतः समागच्छ, अग्रतः समागच्छ' इति राज्ञो बहुभिरादेशैः पुरः पुरो द्वित्राणि द्वित्राणि पदानि व्रजन्नात्मभयेन पश्चाद्गन्तुकामोऽपि श्रेष्ठी भूपतेरदूरासन्नां भूमिमाययौ । बहवः सभास्था राजराणका अग्रगमनेन तेनोल्लञ्चिताः । तथापि पुनः पुरस्समागमार्थ राजादेशे सति श्रेष्ठिमनः शकते - " यद्राज्ञो बहुतरं बहुमानं तदपमानतुल्यम् । यदुक्तम् - हसन्नपि नृपो हन्ति, जिघ्रन्नपि भुजङ्गमः । दुर्बलस्य गृहं हस्ती, घर्षयन्नपि पातयेत् ॥२१६॥" तथापि किञ्चिदने गतस्य श्रेष्ठिनः पुरो राजा वक्ति - भो श्रेष्ठिन् ! भवता कटकमध्ये बम्भ्रमता सता सुतः क्वापि प्रापि, न वा ? इति पृष्टे श्रेष्ठिना 'न' इति प्रोक्ते पुनर्नरपतिर्गदति – भो सुन्दरमते ! निजं पुत्रं दृष्टं लक्षयसि, न वा ? इति साभिप्रायं भाषमाणे नृपे किञ्चिदक्षोभतया श्रेष्ठी स्पष्टमाचप्ट – “ महाराज ! त्वया किमुच्यते ?, संसारे कोऽपि मूढोऽपि स्वकीयमङ्गजं नोपलक्षयति ?, परं वृद्धत्वान्मां किं दृष्टिबलहीनं सम्भावयसि ? न तथा त्वया सम्भाव्यम् , यस्मादहं पुत्रवदननिरीक्षणे सहस्राक्षोऽस्मि, तं दृष्टमात्र लक्षयाम्येव, परं तस्य कदापि कापि पदप्रतिष्ठा स्याद् अथवा रूपपरावर्तो वेषपरावत्तौ वा जातः स्यात् तदा स तनयो न लक्ष्यते ।"

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132