Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
जीवदेवश्रेष्ठिनो जिनदत्तनृपस्याग्रे आत्मसमर्पणम् त्वं स्वयमेव निःसृत्य गच्छ, अन्यथा बहुजीवक्षये तव किं जीवितं शाश्वतं भावि ?, यदुक्तम् -
'एकस्स कए नियजीवियस्स बहुयाओ जीवकोडीओ ।
दुक्खे ठवंति जे के, तेसिं किं सासयं जीयं ? ॥१९८॥" इत्यादि श्रुत्वा श्रेष्ठिनाऽचिन्ति – “ यदि मम शरीरेण बहूनां जीवितरक्षा स्यात् तदा किं न लब्धम् ? यदुक्तम् -
अस्मिन्नसारे संसारे विनाशेऽवश्यभाविनि ।
पुण्यभाजां भवत्येव परार्थे जीवितव्ययः । तथा -
परोपकाराय कृतघ्नमेतच्चलं शरीरं यदि याति यातु ।'
काचे न चेद् वज्रमणि लभेत, मूखोऽपि किं नेति पुनर्ब्रवीति ? ॥२०॥ तथा लोकाक्रोशा अपि कर्णाभ्यां श्रोतुं न शक्यन्ते, मदर्थे यदि पुरभङ्गापयशो जने जातं तदहं जीवन्नपि मृतोऽस्मि । यदुक्तम् -
जीवितव्यं यशः पुंसां, जीवितव्यं न जीवितम् ।
तदेव हि गतं यस्य, जीवन्नपि न जीवति ॥२०१॥” इति विचिन्त्य श्रेष्ठिन्या सहितः श्रेष्ठी सर्वजनान् क्षमयित्वा पाश्चात्यरात्रौ दुर्गमुलय बहिनिर्गतः । स श्रेष्ठी कटकमुखं गच्छन्नपि धीरत्वोचितमिति चिन्तयति, यथा -
" माता यदि विषं दद्यात् , पिता विक्रयते सुतम् । राजा हरांत सर्वस्वं, का तत्र प्रतिवेदना ? ॥२०२॥ तावद् भयस्य भेतव्यं यावद् भयमनागतम् ।
आगते तु भयं दृष्ट्वा, प्रसोढव्यमशकितैः ॥२०३॥" ___ ततः कटकमध्ये यत्र गुरूदरे जिनदत्तराजोऽस्ति तस्य द्वारे गत्वा 'राज्ञो ममाऽऽगमं विज्ञपय' इति श्रेष्ठी दौवारिकमभिहितवान् । तदा द्वाःस्थो दध्यो – “किमस्य जिनदत्तराजस्य सर्व राजानो राणका निष्ठिताः यदनेन दुर्दशालयेन श्रेष्ठिना सहास्य राज्ञः कार्यमस्ति, किमस्य पार्थाद् राजा गृहीष्यति ? मयैवं ज्ञातमभूत् – यदर्थेन नरपतिर्दीयमानं दण्डमपि न जग्राह -- 1. एकस्य कृते निजजीवितस्य बह्वयः जीवकोटयः दुःखे स्थापयन्ति ये केचित् तेषां किं शाश्वतं जीवितव्यम् ॥

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132