Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 76
________________ अरिमर्दननृपस्य प्रजापालनधर्मावलम्बनम् एतत् करोमीति कृतप्रतिज्ञो, यः स्वीकृतं नैव करोति सत्त्वः । यात्यस्य संस्पर्शजकश्मलानां, प्रक्षालनायेव रविः पयोधिम् ॥१८८॥ तथा भस्मनाऽपि तृणेनापि काऽपि सञ्जायते क्रिया । प्रतिज्ञातार्थनिर्वाहच्युतेन न तु जन्तुना ॥१८९॥ तथा - किमिह कपाल-कमण्डलु-वल्कल-सित-रक्तपट-जटापटलैः । व्रतमिदमुज्ज्वलमुन्नतमनसां प्रतिपन्ननिर्वहणम् ॥१९॥ अन्यच्च - __कृशानुसेवा फल-कन्दवर्तनं, जटाधरत्वं वनवासिनां व्रतम् । महीपतिनामिदमेव तु व्रतं यदात्मसत्यात् प्रलयेऽपि न च्युतिः ॥१९१॥ अथ कश्चिद् वृद्धो मन्त्री ब्रूते – “हे राजन् ! एवमेकान्तत्वविधानेन जडनाम लभ्यते, स्वामिन् ! सर्वत्र सुन्दरभाव एव शोभते, तथा क्वापि स्कन्धे बद्ध्वा नाऽऽकृष्यते, अतिमथिते कालकूटमुत्पद्यते । अत एवोक्तम् - अतिरूपेण वै सीता, अतिदर्पण रावणः ।। अतिदानाद् बलिर्बद्धो, अति सर्वत्र वर्जयेत् ॥१९२॥ हे देव ! यद्येवं स्वाग्रहं न मोक्ष्यसे तदा तव मरणं राज्यनाशश्च सम्भाव्यते, ततो हे दीर्घबुद्धे ! त्वं श्रेष्ठिनमर्पय" । अथ राजा प्राह – “ यदीत्थं मरणं स्यात् तदा किं विलोक्यते ?, मरणात् किं भयम् ?, परं महाजनपरिभवो दुःसहः, अस्माभिस्तु व्यापृतं जग्धं पीतं दत्तं विलसितम् , अथ यदा तदा यथा तथा मर्तव्यमेव । यदुक्तम् - धीरेण कातरेणापि मर्तव्यं खलु देहिना । तन्नियेत तथा धीमान् न म्रियेत यथा पुनः ॥१९३॥ हे मन्त्रिन् ! राज्यतृष्णाऽपि साम्प्रतं नास्माकं विद्यते, चिरमपि राज्यं यतः कृतम्, ततोऽस्माकं कीर्तिरेव सम्प्रति सुस्थिरा विलोक्यते । ..J-7. .

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132